Table of Contents

<<1-4-60 —- 1-4-62>>

1-4-61 ऊर्यादिच्विडाचश् च

प्रथमावृत्तिः

TBD.

काशिका

ऊर्यादयः शब्दाः च्व्यन्ता डजन्ताश्च क्रियायोगे गतिसंज्ञा भवन्ति। च्विडाचोः कृभ्वस्तियोगे विधनम्। तत्साहचर्यादूर्यादीनाम् अपि तैरेव योगे गतिसंज्ञा विधीयते। ऊरीउररीशब्दावङ्गीकरने विस्तारे च। ऊरीकृत्य। ऊरीकृतम्। यदुरीकरोति। उररीकृत्य। उररीकृतम्। यदुररीकरोति। पापी। ताली। आत्ताली। वेताली। धूसी। शकला। संशक्ला। ध्वंसकला। भ्रंशकला। एते शकलादयो हिंसायम्। शकलाकृत्य। संशकलाकृत्य। ध्वंसकलाकृत्य। भ्रंशकलाकृत्य। गुलुगुध पीडार्थे गुलुगुधाकृत्य। सुजूःसहार्थे सजूःकृत्य। फलू, फली, विक्ली, आक्ली इति विकारे फलू कृत्य। फली कृत्य। विक्ली कृत्य। आलोओष्टी। करली। केवाली। शेवाली। वर्षाली। मस्मसा। मसमसा। एते हिंसायाम्। वषट्। वौषट्। श्रौषट्। स्वाहा। स्वधा। वन्धा। प्रादुस्। श्रुत्। आविस्। च्व्यन्ताः खल्वपि शुक्लीकृत्य। शुक्लीकृतम्। यच्छुक्लीकरोति। डाच् पटपटाक्रृत्य। पटपटाकृतम्। यत्पटपटकरोति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

953 ऊर्यादयश्च्व्यन्ता डाजन्ताश्च क्रियायोगे गतिसंज्ञाः स्युः. ऊरीकृत्य. शुक्लीकृत्य. पटपटाकृत्य. सुपुरुषः.. (प्रादयो गताद्यर्थे प्रथमया). प्रगत आचार्यः प्राचार्यः. (अत्यादयः क्रान्ताद्यर्थे द्वितीयया). अतिक्रान्तो मालामिति विग्रहे -.

बालमनोरमा

751 ऊर्यादिच्वि। च्वि-डाचौ प्रत्ययौ। ऊरीकृत्येति। ऊरीत्यव्ययमङ्गीकारे, तस्य कृत्वेत्यनेन गतिसमासः। समासेऽनञ्पूर्वे क्त्वो ल्यप्। शुक्लीकृत्येति। अशुक्लं शुक्लं कृत्वेत्यर्थः। `कृभ्वस्तियोगे' इत्यभूततद्भावे च्विः। गतिसमासे सति क्त्वो ल्यप्, `वेरपृक्तस्ये'ति वलोपः। `अस्य च्वौ' इति ईत्त्वम्। पटपटाकृत्येति। `पटपटा' इति शब्दं कृत्वेत्यर्थः। `अव्यक्तानुकरणाद्द्व्यजवरार्धादनितौ डाच्' इति पटच्छब्दाड्डाचि द्वित्वम्, टिलोपः। `नित्यमाम्रेडिते डाची'ति तकारपकारयो पकार एकादेशः। गतिसमासे क्त्वो ल्यप्। `गतिसंज्ञाया' इति शेषः। कारिकाशब्दं व्याचष्टे–कारिका क्रियेति। `स्त्रियां क्ति'नित्यधिकारे धात्वर्थनिर्देशे ण्वुल्। कारिकाकृत्येति। क्रियां कृत्वेत्यर्थः। द्वितीयान्तस्य गतिसमासे क्त्वो ल्यप्, सुब्लुक्। कारिकाशब्दोऽत्र न कत्र्रीवाची, न श्लोकवाची च, व्याख्यानात्।

तत्त्वबोधिनी

665 ऊर्यादिच्विडाचश्च। `उपसर्गाः क्रियायोगो'इत्यतोऽनुवर्तनादाह–क्रियायोग इति। च्विडाचौ कृभ्वस्तियोगे विहितौ, तत्साहचर्यादूर्यादीनामपि तत्रैव गतिसंज्ञा। तेनेह न—ऊरी पक्त्वा। माधवादिग्रन्थे तु आविःप्रादुः शब्दौ मुक्त्वा अन्येषां कतोतिनैव योगे गतिसंज्ञे'ति स्थितम्। तथैवोदाहरति–ऊराकृत्येति। एतच्च मनोरमानुसारेणोक्तम्। वस्तुतस्तु ऊरीभूयेति भाष्योदाहरणाद्दिङ्भात्रमुदाहरति, ऊरीकृत्येत्यवतरितुं युक्तम्। संज्ञाफलं समासः, तत्फलं च ल्बिति बोध्यम्। ऊरी उररी–एतावङ्गीकारे। आविः शब्दस्य तु साक्षात्प्रभृतिषु पाठात्कृञो योगे गतिसंज्ञाविकल्पः, कृम्भस्तियोगे त्वनेन नित्यमिति बोध्यम्। कथं तर्हि `वारुणीमदविशङ्कमथाविश्चक्षुषो भवदसाविव रागः'इति माघ इति चेत्?। अत्राहुः–`ते प्राग्धातोः'इति सूत्रस्य प्रयोगनियमार्थत्वपक्षे प्रकृतेऽनुपपत्तवपि संज्ञानियमार्थत्वपक्षे दोषलेशोऽपि नास्तीति।शुक्लीति। `कुम्भस्तियोगे संपद्यकर्तरि च्विः'। `अस्य च्वौ'इतीकारः। पटपटाकृत्येति। `डाचि बहुलं द्वे भवतः'इति पटच्छब्दस्य द्वित्वम्। `अव्यक्तानुकरणाद् व्द्यजवराद्र्धादि'ति तकारपकारयोः पकार एकादेशः। निपातसंज्ञायाः समावेशार्थः [सूत्रे]चकारः। तेन ऊरीकृतमित्यत्र `गतिरनन्तरः'इति पूर्वपदप्रकृतिस्वरे क्रियमाणे निपातप्रयुक्तमाद्युदात्तत्वं भवति। तदाह–क्रियेति। `क्रियायोगे'इत्यनेन कारिकाशब्दस्य विशेषणाच्छ्लोकवाचौ कारिकाशब्दोऽत्र न गृह्रत इति भावः। क्रियशब्दस्याऽत्र मर्यादास्थितिरर्थः। यत्न इत्यन्ये।

Satishji's सूत्र-सूचिः

TBD.