TBD.
उपसर्गस्थान् निमित्तात् प्रादुस्शब्दाच् च उत्तरस्य यकारपरस्य अच्परस्य च अस्तिसकारस्य मूर्धन्यो भवति। अभिषन्ति। निषन्ति। विषन्ति। प्रादुःषन्ति। अभिष्यात्। निष्यात्। विष्यात्। प्राडुःष्यात्। उपसर्गातिति किम्? दधि स्यात्। मधु स्यात्। अस्ति इति किम्? अनुसृतम्। विसृतम्। अथ असत्यपि अस्तिग्रहणे सकारम् एव प्रति उपसर्ग आश्रीयते, प्रादुःशब्दस्य च कृभ्वस्तिष्वेव प्रयोगः इति अन्यत्राप्रसङ्गः? तथापि एतत् प्रत्युदाहर्तव्यम्, अनुसूते अनुसूः, अनुस्वो ऽपत्यं आनुसेयः। शुभ्रादित्वाड् ढक् 4-1-123, ढे लोपो ऽकद्र्वाः 6-4-147 इति उवर्नलोपः। यच्परः इति किम्? निस्तः। विस्तः। प्रादुस्तः।
TBD.
578 उपसर्गेणः प्रादुसश्चास्तेः सस्य षो यकारेऽचि च परे. निष्यात्. प्रनिषन्ति, प्रादुः षन्ति. यच्परः किम्?. अभिस्तः..
303 उपसर्गप्रादुभ्र्याम्। उपसर्गः प्रादुस् अनयोद्र्वन्द्वः। इण्कोरित्यधिकृतम्। तत्र इण इत्युपसर्गेण संबध्यते, न प्रादुसि, ततः परस्य अस्तेः सस्य इणः परत्वाऽसंभवात्। कोरित्यपि असंभवान्न संबध्यते। अस्तिरिति षष्ठ\उfffद्र्थे प्रथमा। `सहेः साडः सः' इत्यतः स इति षष्ठ\उfffद्न्तमनुवर्तते, मूर्धन्य इत्यधिकृतम्। य् अच् –अनयोद्र्वन्द्वः। यचौ परौ यस्मादिति विग्रहः। यकारे अचि च परे इति लभ्यते। तदाह– उपसर्गेण इति। उपसर्गेण इति। उपसर्गस्थादिण इत्यर्थः। परस्येति। अस्तेः सस्य विशेषणमिदम्,न त्वस्तेः, तेन प्रादुरासीदित्यत्र न षत्वम्। यकारपरकत्वे उदाहरति– निष्यात् प्रादुष्ष्यादिति। प्रादुसिति सान्तमव्ययम्। सस्य षत्वे पूर्वस्य सस्य ष्टुत्वेन षः। षान्तत्वे तु `प्रादुभ्र्या'मिति रुत्वनिर्देशो नोपपद्यते। अच्परकत्वने उदाहरति– निषन्ति प्रादुष्षन्तीति। मृजूष् शुद्धाविति। ऊदित्त्वमिड्विकल्पार्थम्। `षिद्भिदादिभ्यो'ऽङित्यङर्थं षित्त्वम्। वस्तुतस्तु भिदादिगणे मृजाशब्दपाठादेव सिद्धेरिह षित्करममनार्षमित्याहुः।
262 उपसर्गप्रादुभ्र्याम्। प्रादुसिति सान्तमव्ययम्। `प्रादुषश्चे'ति पाठे प्रादुभ्र्यामिति निर्देशो न युज्यते इति प्राचां षान्तपाठः प्रामादिकः। परस्येति। अयमस्तेः सस्य विशेषणं, न त्वस्तेः। तेन प्रादुरस्तीत्यत्र न षत्वम्। उपसर्गेत्यादि किम् ?। दधि स्यात्। अस्तेः किम् ?। परिसृजति। मृजू शुद्धौ। अयं न षित्, भिदादिपाठसामथ्र्यात्।
TBD.