TBD.
काडराः कर्मधारये 2-2-38 इति वक्ष्यति। आ एतस्मात् सूत्रावधेर्यदित ऊर्ध्वम् अनुक्रमिष्यामः, तत्र एका संज्ञा भवति इति वेदितव्यम्। का पुनरसौ? या परा अनवकाशा च। अन्यत्र सञ्जासमावेशान् नियमार्थं वचनम् एकैव संज्ञा भवति इति। वक्ष्यति ह्रस्वं लघु 1-4-10), भिदि, छिदि भेत्ता, छेत्ता। संयोगे गुरु (*1,4.11, शिक्षि, भिक्षि शिक्षा, भिक्षा। संयोगपरस्य ह्रस्वस्य लघुसंज्ञा प्राप्नोति, गुरुसंज्ञा च। एका संज्ञा इति वचनाद् गुरुसंज्ञा एव भवति। अततक्षत्, अररक्षत्, सन्वल्लघुनि चङ्परे ऽनग्लोपे 7-4-93 इत्येष विधिर् न भवति।
TBD.
166 इत ऊर्ध्वं कडाराः कर्मधारय इत्यतः प्रागेकस्यैकैव संज्ञा ज्ञेया. या परानवकाशा च..
230 नह्रत्र द्वयोरपि संज्ञयोः समावेसे विरोधोऽस्ति, तव्यत्तव्यानीयरादौ कृत्कृत्यप्रत्ययादिसंज्ञासमावेशदर्शनादित्यत आह-आ कडारा। आङ्मर्यादायामित्याह– कडाराः कर्मधारये इति। आङिह नाभिविधौ। कडारशब्दस्यापि प्रवेशे प्रयोजनाऽभावात्। `प्राक्कडारा'दिति कडारशब्दस्तु नोत्तरावधिः। `कडाराः कर्मधारये' इति कडारशब्दस्य उत्तरावधित्वेऽधिकलाभात्। `प्राक्कडारादित्युत्तरं तत्पुरुषः द्विगुश्चेति चकाराच्च। संज्ञाद्वयसमावेशषार्थो हि चकारः। तत्रैकसंज्ञाया नियमाऽप्रवृत्तौ किं तेन ?। नन्वस्त्विह एकैव संज्ञा, तथापि विनिगमनाविरहाद्भसंज्ञैवेति कुतो लाभः ?। तत्राह–या परेत्यादि। विरोधाऽभावेन विप्रतिषेधसूत्रस्य सामान्याद्विशेषबलीयस्त्वस्य चाऽप्रवृत्तावपि परत्वनिरवकाशत्वयोरन्यत्र बलवत्त्वेन दृष्टत्वादिहापि ताभ्यां व्यवश्ता युज्यते इति भावः। द्वयोः सावकाशयोः परा संज्ञा बलवती। अन्यतरस्या निरवकाशत्वे तु सैवेति बोध्यम्। तत्र परा यथा–`धनुषा शरैर्विध्यती'त्यत्र शराणां विश्लेषं प्रत्यवधिभूतस्यैव धनुषा व्यधनं प्रति साधकतमत्वादपादानत्वे करणत्वे च प्राप्ते परा करणसंज्ञैव भवति। अनवकाशा यथाअततक्षदिति। अत्र तकारादकारस्य `संयोगे गुरु' इति गुरुसंज्ञैवाऽनवलकाशत्वाद्भवति, नतु लघुसंज्ञा। तस्या असंयोगे परे चरितार्थत्वात्। अतः सन्वल्लघुनीति तत्र न प्रवर्तते। तेनेति। अनवकाशत्वेनेत्यर्थः। अत इति। पदत्वाऽभावाज्जश्त्वं नेत्यर्थः। जश्त्वमिति। दत्-भ्यामिति स्थिते `स्वादिष्वसर्वनामस्थाने' इति पदान्तत्वात्। `झलां जशोऽन्ते' इति जश्त्वमित्यर्थः। इत्यादीति। दद्भिः दते इत्यादिरादिशब्दार्थः। `खरि च' इति चर्त्वे-दत्सु। पक्षे रामवत्। मास इति। मासशब्दस्य शसि `पद्दन्न' इति मासित्यादेशे रूपम्। मासेति तृतीयैकवचनम्। रुत्व इति। मास्-भ्याम् इति स्थिते स्वादिष्विति पदत्वात् `ससजुषोः' इति रुः। `भोभगो' इति तस्य यकारे `हलि सर्वेषा'मिति तस्य लोपे माभ्यां' `माभि'रिति रूपमित्यर्थः। इत्यादीति। `माब्यः' इत्यादिरादिशब्दार्थः। मास्-सु इति स्थिते रुत्वे `खरवसानयोः' इति विसर्गे `वा शरि' इति सत्वविकल्पः। मास्सु-माःसु।
195 आ कडारा। इह `प्राक्कडारात्मसमासः' इत्यस्य नावधित्वं, व्याप्तिन्यायात्। `तत्पुरुषो द्विगुश्चे'ति लिङ्गाच्च। संज्ञाद्वयसमावेशार्थं हि तत्र चकारः। तदाह- कडाराः कर्मधारय इत्यत इति। एकस्यैकैव संज्ञेति। उभयोः सावकाशत्वे `विप्रतिषेधे पर'मिति परैव गृह्रते, निरवकाशत्वे तु सैव। तत्र परस्या उदाहरणं–`धनुषा विध्यती'ति। अत्र शराणामपायं प्रत्यवधिभूतस्यैव धनुषो व्यधनं प्रति साधकत्वमित्युभयप्रसङ्गे परत्वात्करणसंज्ञा अपादानसंज्ञां बाधते। निरवकाशायाः पूर्वस्यास्तदाहरणं `भवतष्ठक्छसौ' भवदीय इति। अत्र हि `सिति चे'ति पदसंज्ञा परामपि भसंज्ञां बाधते, निरवकाशत्वात्। तेन तकारस्य जश्त्वं भवति। प्रकृते तु पराऽनवकाशा भसंज्ञा पदसंज्ञां बाधते इति शसादावचि सैव ग्रहीतुमुचितेत्याशयेनाह–या परेत्यादि। यलोप इति। `हलि सर्वेषा'मित्यनेन। `लोपो व्योर्वली'ति तु न प्रवर्तते, यत्वास्याऽसिद्धत्वात्।
TBD.