Table of Contents

<<1-4-11 —- 1-4-13>>

1-4-12 दीर्घं च

प्रथमावृत्तिः

TBD.

काशिका

संयोगे इति न अनुवर्तते। सामान्येन संज्ञाविधान। दीर्घं च अक्षरं गुरुसंज्ञं भवति। ईहाञ्चक्रे। ईक्षाञ्चक्रे।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

452 गुरु स्यात्..

बालमनोरमा

434 दीर्घं च। संयोग इति नानुवर्तते। दीर्घमपि गुरुसंज्ञकमित्यर्थः। इति संज्ञाप्रकरणमिति। सन्धिकार्योपयोगिप्रथमाध्यायस्थसंज्ञानिरूपणं समाप्तमित्यर्थः। \र्\निति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां

बालमनोरमा

यां संज्ञाप्रकरणं समाप्तम्॥ सन्प्रक्रिया निरूप्यन्ते।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

321) दीर्घं च 1-4-12

वृत्तिः दीर्घं चाक्षरं गुरुसञ्ज्ञं भवति। A long vowel also gets the designation “गुरु”।