Table of Contents

<<1-3-16 —- 1-3-18>>

1-3-17 नेर् विशः

प्रथमावृत्तिः

TBD.

काशिका

शषात् कर्तरि पर्स्मैपदम् 1-3-78 इति प्रस्मैपदे प्राप्ते निपूर्वाद् विश आत्मनेपदं विधीयते। नेः परस्माद् विश आत्मनेपदं भवति। निविशते। निविशन्ते। नेः इति किम्? प्रविशति। यदागमास् तद्ग्रहणेन गृह्यन्ते तेन अटा न अस्ति व्यवधानम्। न्यविशत। नेरुपसर्गस्य ग्रहणम्, अर्थवद्ग्रहने न अनर्थकस्य ग्रहणम् इति। तस्मादिह न भवति, मधुनि विशान्ति भ्रमराः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

736 निविशते..

बालमनोरमा

508 नेर्विशः। निपूर्वाद्विश आत्मनेपदं स्यादित्यर्थः। नेति निवृत्तम्. यद्यपि न्यविशतेत्यत्र न विशिर्नेः परः, अटा व्यवधानात्,अटो विकरणान्ताङ्गभक्तत्वेन विशधात्ववयवत्वऽभावात्, तथापि `अड्?व्यवाये उपसङ्ख्यान'मिति वार्तिकाद्भवतीति `शदेः शितः' इत्यत्र भाष्ये स्पष्टम्।

तत्त्वबोधिनी

436 नेर्विशः। नेः किम् ?। प्रविशति। अर्थवद्ग्रहणलक्षणप्रतिपदोक्तपरिभाषाभ्यां नेरुपसर्गस्य ग्रहणम्। तेनेह न– `मधूनि विशन्ति भ्रमराः'। `इत्युक्त्वा मैथिली भर्तुरङ्के निविशी भया' दित्यत्र तु `अङ्गानि विशती'ति पाठ\उfffद्म्। न च पदसंस्कारपक्षे त्वङ्के नि विशतीति पाठेऽप्यदोष इति वाच्यं, त्वं करोति भवान् करोषीत्यादिप्रयोगस्यापि त्वदुक्तरीत्या साधुत्वापत्तेः, `वा लिप्साया'मित्यदेर्वैयथ्र्यापत्तेश्च। स्यादेतत्- - `नवाऽम्बुदश्यामतनुन्र्यविक्षते' त्यत्रात्मनेपदं न स्यात्, अटा व्यवधानात्। न च स्वाङ्गमव्यवधायकमिति वाच्यम्,अङ्गभक्तस्याऽटो विकरणविशिष्टस्याऽवयवत्वेऽपि धातोरनवयवत्वादिति चेत्। अत्राहुः– `लावस्थायामडागम'इति भाष्यमते न कश्चिद्दोषः। मतान्तरे तु उपसर्गनियमे `अड्व्यवाये उपसङ्ख्यान'मिति वार्तिकमस्तीति [दिक्]।

Satishji's सूत्र-सूचिः

TBD.