Table of Contents

<<1-3-28 —- 1-3-30>>

1-3-29 समो गम्यृच्छिप्रच्छिस्वरत्यर्तिश्रुविदिघ्यः

प्रथमावृत्तिः

TBD.

काशिका

अकर्मकातिति वर्तते। शेषात् कर्तरि परस्मैपदम् 1-3-78 इति प्राप्ते सम्पूर्वेभ्यो गमि ऋच्छि प्रच्छि स्वरति अर्ति श्रु विदि इत्येतेभ्यो ऽकर्मकेभ्यो धातुभ्य आत्मनेपदं भवति। सङ्गच्छते। अमृद्धते। संपृच्छते। संस्वरति। सङ्कल्पा अस्य समरन्त। अर्तेर् लुङि च्लेः सर्तिशास्त्यर्तिभ्यश्च 3-1-56। इत्यङादेशः। तत्र प्रस्मैपदेशु इत्येतन् नाश्रीयते। बहुलं छन्दस्यमाङ्योगे ऽपि 6-4-75 इत्याट् प्रतिषध्यते। ऋदृशो ऽङि गुणः 7-4-16 इति गुणः समरनत। संशृणुते। संवित्ते। ऋच्छेरनादेशस्य ग्रहणम्, समृच्छिष्यते। अर्त्यादेशस्य त्वर्ति इत्येव सिद्धम् आत्मनेपदम्। अर्तिरुभयत्र पठ्यते, ऋ गतिप्रापणयोः इति भ्वादौ, ऋ सृ गतौ इति जुहोत्यादौ। विशेषाभावाद् द्वयोरपि ग्रहणम्। विदेर्ज्ञानार्थस्य ग्रहनम्, परस्मैपदिभिर् गमादिभिः साहचर्यात्, न लाभार्थस्य स्वरितेत्त्वादुभ्यतोभाषस्य। दृशेश्च इति वक्तव्यम्। संपश्यते। अकर्मकातित्येव। ग्रामं संपस्यति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

523 समो गम्यृच्छिभ्याम्। `आत्मनेपद'मिति शेषः। अकर्मकाभ्यामित्येवेति। `स्वाङ्गकर्मकाच्चे'ति तु निवृत्तमिति भावः। सङ्गच्छते इति। संगतं भवतीत्यर्थः।

तत्त्वबोधिनी

446 सङ्गतं भवतीत्यर्थः।

Satishji's सूत्र-सूचिः

TBD.