Table of Contents

<<7-4-15 —- 7-4-17>>

7-4-16 ऋदृशोऽङि गुणः

प्रथमावृत्तिः

TBD.

काशिका

ऋवर्णान्तानां दृशेश्च अङि परतो गुणो भवति। शकलाङ्गुष्ठको ऽकरत्। अहं तेभ्यो ऽकरं नमः। असरत्। आरत्। जरा। दृशेः अदर्शत्, अदर्शताम्, अदर्शन्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

239 ऋदृशोऽङि। `ऋ' इत्यङ्गविशेषणत्वात्तदन्तविधिः। तदाह– ऋवर्णान्तानामिति। अङभावे इति। अङभावपक्षे `शल इगुपधा' दिति क्सादेशे प्राप्ते सतीत्यर्थः।

तत्त्वबोधिनी

211 अदाङ्क्षीदिति। `वदव्रजे'ति वृद्धिः। अदांष्टाम्। अदाङ्क्षुः।

Satishji's सूत्र-सूचिः

वृत्ति: ऋवर्णान्तानां दृशेश्च गुणः स्यादङि । A अङ्गम् ending in the ऋ-वर्णः (ऋकारः/ॠकारः) or consisting of the verbal root √दृश् (दृशिँर् प्रेक्षणे १. ११४३) takes the गुणः substitute when followed by the affix “अङ्”।

Example continued from 3-1-47

दृश् + अ + त्
= दर्श् + अ + त् 7-4-16, 1-1-51
= अट् दर्श् + अ + त् 6-4-71, 1-1-46
= अदर्शत् 1-3-3, 1-3-9

In the case where the optional “अङ्”-आदेशः (by 3-1-57) is not applied the form is अद्राक्षीत्, derived as follows:

दृश् + लुँङ् 3-2-110
= दृश् + ल् 1-3-2, 1-3-3, 1-3-9
= दृश् + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108
= दृश् + ति 1-3-3, 1-3-9
= दृश् + त् 3-4-100
= दृश् + च्लि + त् 3-1-43
Note: 3-1-47 stops the “क्स”-आदेशः for “च्लि” which would have been done by 3-1-45
= दृश् + सिँच् + त् 3-1-44
= दृश् + स् + त् 1-3-2, 1-3-3, 1-3-9. Note: 7-2-10 blocks 7-2-35
= दृश् + स् + ईट् त् 7-3-96, 1-1-46
= दृश् + स् + ईत् 1-3-3, 1-3-9
= दृ अम् श् + स् + ईत् 6-1-58, 1-1-47
= दृ अ श् + स् + ईत् 1-3-3, 1-3-9
= द्रश् + स् + ईत् 6-1-77
= द्राश् + स् + ईत् 7-2-3
= अट् द्राश् + स् + ईत् 6-4-71, 1-1-46
= अ द्राश् + स् + ईत् 1-3-3, 1-3-9
= अ द्राष् + स् + ईत् 8-2-36
= अद्राक् + स् + ईत् 8-2-41
= अद्राक्षीत् 8-3-59