Table of Contents

<<1-3-29 —- 1-3-31>>

1-3-30 निसमुपविभ्यो ह्वः

प्रथमावृत्तिः

TBD.

काशिका

अकर्मकातिति निवृत्तम्। अतः परं सामान्येन आत्मनेपदविधानं प्रतिपत्तव्यम्। नि सम् उप वि इत्येवं पूर्वात् ह्वयतेर् धातोरात्नमेपदं भवति। निह्वयते। संह्वयते उपह्वयते। विह्वयते। अकर्त्रभिप्रायार्थो ऽयमारम्भः। अन्यत्र हि ञित्त्वात् सिद्धम् एवाऽत्मनेपदम्। उपसर्गादस्यत्यूह्योर् वा वचनम्। निरस्यति, निरस्यते। समूहति, समूहते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

526 निसमुपवि। ह्वेञः कृतात्त्वस्य ह्व इति पञ्चम्यन्तम्। निह्वयते इति। संह्वयते। उपह्वयते। विह्वयते। अकत्र्रभिप्रायार्थमिदम्।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.