TBD.
सृ गतौ, शासु अनुशिष्टौ ऋ गतौ इत्येतेभ्यः परस्य च्लेः अङादेशो भवति। असरत्। अशिषत्। आरत्। पृथग्योगकरणम् आत्मनेपदार्थम्। समरन्त। चकारः परस्मैपदेषु इत्यनुकर्षणार्थः तच्चोत्तरत्रोपयोगं यास्यति।
TBD.
–
219 अत्र च्लेरङमाशङ्कितुमाह–सर्ति। च्लि लुङीत्यनुवर्तते। `णिश्रिद्रुरुआउब्यः' इत्यतः कर्तरि चङिति। तदाह–एभ्य इति। ततश्च प्रकृते असार्षीदित्यत्र अङ् स्यादिति शङ्का सूचिता। तां परिहरति– इह लुप्तेत्यादिना। इह अङ्विधौ शास्तीत्यनेन लुप्तविकरणः शासिर्गृह्रते इति निर्विवादं, तस्य विकरणान्तराऽभावात्। एवं च तत्साहचर्यात्सृधातुरृधातुश्च जौहोत्यादिकौ श्लुविकरणावेव नेत्यर्थः। तदेवं सृदातोर्गतिसामान्यवृत्तेरुक्तानि रूपाणि। यदि शीघ्रगतौ सृधातुस्तदा तस्य विशेषमाह–शीघ्रगतौ त्विति। धौरादेश इति। धौशब्दस्य `धौ'रिति प्रथमान्तम्। `धौ'इत्यौकारान्त आदेश इत्यर्थः। `पाघ्रे'ति सूत्रे सर्तीति श्तिपा निर्देशः। लुप्तविकरणनिर्देशस्तु अविवक्षित इति भावः। सर्तेर्वेगितायां गतौ धावादेशः' इति वार्तिकमभिप्रेत्येदम्। धावतीति। शपि सृधातोर्धौभावे आवादेशः। धावतु। अधावत्। धावेत्। ऋ गतिप्रापणयोः। अनिट्। `पाघ्राध्मे'ति शिद्विषये ऋच्छादेशः। तदाह– ऋच्छतीति।
191 सर्तिशास्त्यर्ति। परस्मैपदेष्विति न संबद्ध्यते, पुषादियोगादस्य पृथक्करणात्। `आङः शासु इच्छाया'मित्यस्यात्र न ग्रहणं, कि तु सत्र्यर्तिभ्यां साहचर्यात्परस्मैपदिनः शासेरेवेत्याहुः। असरत्। अशिषत्। आरत्।
TBD.