Table of Contents

<<7-2-15 —- 7-2-17>>

7-2-16 आदितश् च

प्रथमावृत्तिः

TBD.

काशिका

आदितश्च धतोर् निष्थायम् इडागमो न भवति। ञिमिदा मिन्नः। मिन्नवान्। ञिक्ष्विदा क्ष्विण्णः। क्ष्विण्णवान्। ञिष्विदा स्विन्नः। स्वन्नवान्। कारो ऽनुक्तसमुच्चयार्थः। आश्वस्तः। वान्तः। योगविभागकरणं किमर्थम्, आदितश्च विभाषा भावादिकर्मणोः इत्येवं पठितव्यम्, अन्यत्र हि भावादिकर्मभ्याम् यस्य विभाषा 7-2-15 इति प्रतिषेधो भविष्यति? ज्ञापनार्थम् एतत्। ज्ञापयति यदुपाधेर् विभाषा तदुपाधेः प्रतिषेधः इति। तेन विभाषा गमहनविदविशाम् 7-2-68 इत्यत्र विदेर्लाभार्थस्य विभाषा इति ज्ञानार्थस्य प्रतिषेधो न भवति। विदितः। विदितवान्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

843 आदितश्च। निष्ठाया इण्न स्यादिति। `\उfffदाईदितः' इत्यतो निष्ठायामिति, `नेड्वशी'त्यतो नेडिति चानुवर्तते इति भावः। ति च। `चरफलोश्चे' ति सूत्रानुवृतिं?त मत्वाह– चरलोरिति। अत उत्स्यादिति। `उत्परस्याऽतः' इत्यतस्तदनुवृत्तेरिति भावः। कितीति। `दीर्घ इणः किती'त्यतो मण्डूकप्लुप्त्या तदनुवर्तते इति भावः। वस्तुतस्तु कितीत्यनुवृत्तिर्निर्मूला, निष्पला च, तयोः सेट्कत्वेन निष्ठां विना तकारादिप्रत्ययाऽभावात्। कथं तर्हीति। प्रफुल्लमित्यस्य सोपसर्गत्वेन निष्ठातस्य लत्वाऽसंभवादिति भावः। समाधत्ते– फुल्लेति। ननु फुल्लेः पचाद्यचैव फुल्ल इत्यस्य सिद्धेः फुल्ल इत्यस्य निपातनं व्यर्थमित्यताअह– सूत्रं त्विति। उत्फुल्लसंफुल्ल्योरिति। `निष्ठातस्य लत्वनिपातन'मिति शेषः। सोपसर्गार्थं वचनम्।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.