Table of Contents

<<1-2-39 —- 1-2-41>>

1-2-40 उदात्तस्वरितपरस्य सन्नतरः

प्रथमावृत्तिः

TBD.

काशिका

अनुदात्तग्रहणम् अनुवर्तते। उदात्तः परो यस्मात् स उदात्तपरः स्वरितः परो यस्मात् स स्वरितपरः। उदात्तपरस्य स्वरितपरस्य च अनुदात्तस्य सन्नतर आदेशो भवति। अनुदात्ततरः इत्यर्थः। देवा मरुतः पृश्निमातरो ऽपः। मातरः इत्यनुदात्तः। अपः इत्यन्तौदात्तः ऊडिदंपदाद्यप्पुम्रैद्युभ्यः 6-1-171 इति। तत्र अनुदात्तयोरेकादेश ओकारो ऽनुदात्तः तस्यौदात्ते परभूते सन्नतर आदेशो भवति। इमं मे गङ्गे यमुने सरस्वति शुतुद्रि। इकारो ऽनुदात्तः। शुतुद्रि इत्येतदामन्त्रितं पादादौ तस्मान् न निहन्यते, अनुदात्तं सर्वम् अपादादौ 8-1-18 इति। तस्य प्रथमम् अक्षरम् उदात्तं तस्मिन् परभूते पूर्वस्य सरस्वति इति इकारस्य सन्नतर आदेशो भवति। माणवक जटिलकाद्यापक क्व गमिष्यसि। क्व इति स्वरितस् तस्मिन् परभूते क इति अनुदत्तस् तस्य सन्नतर आदेशो भवति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.