TBD.
वृद्धिशब्दः संज्ञात्वेन विधीयते, प्रत्येकम् आदैचां वर्णानां सामान्येन तद्भावितानाम्, अतद्भावितानां च। तपरकरणम् ऐजर्थम् तादपि परः तपरः इति, खट्वैडकादिषु त्रिमात्रचतुर्मात्रप्रसङ्ग. निवृत्तये। आश्वलायनः। ऐतिकायनः। औपगवः। औपमन्यवः। शालीयः। मालीयः। वृद्धिप्रदेशाः सिचि वृद्धिः परस्मैपदेषु 7-2-1 इत्येवम् आदयः।
TBD.
32 आदैच्च वृद्धिसंज्ञः स्यात् ॥
18 इदानीं संज्ञान्तराणि विधास्यन् वृद्धिसंज्ञां तावदाह–वृद्धिरादैच्। यद्यपि पाणिनीयाष्टाध्याय्यामिदमादिमं सूत्रं, तथापि नेदमादावुपन्यस्तम्, अस्य सूत्रस्य तपरकरणेन प्रत्याहारगर्भितत्वेन ग्रहणकशास्त्रनियमार्थतपरसूत्रप्रत्याहारसूत्रप्रवृत्त्युत्तरप्रवृत्तिकतया प्रत्याहरशास्त्रप्रपञ्चनिरूपणात्प्रागुपन्यासनर्हत्वात्। न च सूत्रकृता अयमेव पाठकमः कुतो नाद्रियत इति वाच्यम्। स्वतन्त्रेच्छस्य महर्षेर्नियन्तुमशक्यत्वात्। आच्च ऐच्चेति समाहारद्वन्द्वः। `द्वन्द्वाच्चुदषहान्तात्' इति समासान्तस्तु न, अत एव निर्देशेन समासान्तविधेरनित्यत्वात्। `चोः कुः' इति पदान्ते विहितं कुत्वमपि न. `अयस्मयादीनि छन्दसि' इति भत्वात्। `वृद्धिरादैजदेङ' इति संहितापाठपक्षे चकारस्य `झलां जशोऽन्ते' इति पदान्ते विहितजश्त्वं तु भवत्येव, `उभयसंज्ञान्यपि छन्दसि दृश्यन्ते' इति वचनात् , `छन्दोवत्सूत्राणि भवन्ति' इति छान्दसविधीनां सूत्रेष्वपि प्रवृत्तेः। नचैवमपि पदत्वात्कुत्वं भत्वाज्जश्त्वाऽभावश्च कुतो न स्यादिति वाच्यम्, `छन्दसि दृष्टानुविधिः' इति वचनादित्यलम्।आच्च ऐच्चेतीतरेतरयोगद्वन्द्वो वा। तथा सति सौत्रमेकवचनम्। आचार्यपारंपर्योपदेशसिद्धसंज्ञाधिकारात् संज्ञेति लभ्यते। तदेतदाह–आदैच्चेत्यादिना।
17 वृद्धिरादैच्। आच्च ऐच्चेति इतरेतरयोगद्वन्द्वः, `सुपां सुलु' गिति औङः सुर्लुग्वा। यद्वा समाहारद्वन्द्वः। नचैवं `द्वन्द्वाच्चुदषहान्तात्समाहारे' इति टच्स्यादिति वाच्यम्, समासान्तविधेरनित्यत्वात्। तत्र च प्रमाणं समासेषु वक्ष्यामः। अथवा `आ'दित्यसमस्तमेवास्तु, वृद्धिशब्दस्तन्त्रेणावृत्त्यां वा योजनीयः। ?यस्मयादित्वेन भत्वाच्चोः कुर्न। `ऐ'जिह द्विमात्र एव, तात्परत्वात्, तेन `कृष्णैकत्व'मित्यत्र त्रिमात्रो न। वृद्धिप्रदेशाः-`वृद्धिरेचि'त्यादयः।
TBD.