Table of Contents

<<1-1-23 —- 1-1-25>>

1-1-24 ष्णान्ता षट्

प्रथमावृत्तिः

TBD.

काशिका

स्त्रीलिङ्गनिर्देशात् सङ्ख्य इति सम्बध्यते। षकारान्ता नकारान्ता च या सङ्ख्या सा षट्संज्ञा भवति। षकारान्ता तावत्षट् तिष्ठन्ति। षट् प्श्ये। नकारान्तःपञ्च। सप्त। नव। दस। अन्तग्रहणम् औपदेशिकार्थम्। तेनैह न भवति शतानि, सहस्राणि। अष्टानाम् इत्यत्र नुड् भवति। षट्प्रदेशाःषड्भ्यो लुक् 7-1-22 इत्येवम् आदयः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

299 षान्ता नान्ता च संख्या षट्संज्ञा स्यात्. पञ्चन्शब्दो नित्यं बहुवचनान्तः. पञ्च. पञ्च. पञ्चभिः. पञ्चभ्यः. पञ्चभ्यःणुट्..

बालमनोरमा

पञ्चन्शब्दो नित्यं बहुवचनान्तः। तस्य षट्संभाकार्यं लुकं विधास्यन् षट्संज्ञामाह- -ष्णान्ता षट्। ष्च नश्च ष्णौ। ष्टुत्वेन णः। ष्णौ अन्तौ यस्याः सा ष्णान्ता। `बहुगणवतुडति सङ्ख्या' इत्यतः सङ्ख्येत्यनुवर्तते। तच्च पूर्वसूत्रे बहुगणवतुडतिपरमपि शब्दाधिकारादिह पञ्च षडित्यादिप्रसिद्धसङ्ख्याबोधकशब्दपरमाश्रीयते, बहुगणवतुडतिषु ष्णान्तत्वाऽसम्भवात्। तदाह–षान्तेत्यादिना। षड्भ्यो लुगिति। `अनेन जश्शसोर्लु'गिति शेषः। पञ्च पञ्चेति। जश्शसोर्लुकि नलोप इति भावः। सङ्ख्या किमिति। सङ्ख्याग्रहणानुवृत्तेः किं फलमिति प्रश्नः। विप्रुषः पामान इति विप्रुष्शब्दस्य पामन्शब्दस्य च ष्णान्तत्वेऽपि सङ्ख्यावाचकत्वाऽभावेन षट्संज्ञाविरहात्ततः परस्य जसो लुगिति भावः। ननु शतशब्दाज्जश्शसोः शिभावे `नपुंसकस्य झलचः' इति नुमि `सर्वनामस्थाने चे'ति दीर्घे शतानीति रूपम्। एवं सहरुआआणीत्यपि रूपम्। तत्र `अट्कुप्वाङि'ति णत्वं विशेषः। इह `तदागमाः' इति न्यायेन नुमोऽङ्गभक्तत्वाच्छतन्शब्दसहरुआन्शब्दयोर्नान्तसङ्ख्याशब्दत्वात् षट्संज्ञायां सत्यां `षड्भ्यो लु'गिति जश्शसोर्लुक् स्यादत आह–शतानीत्यादि। सर्वनामेति। सर्वनामस्थानं परत्वेन उपजीव्य प्रवृत्तस्य नुमः सन्निपातपरिभाषया सर्वनामस्थानभूतजश्शसोर्लुकं प्रति निमित्तत्वाऽभावादित्यर्थः। पञ्चभिः पञ्चभ्य इति। नलोपे रूपम्।

तत्त्वबोधिनी

330 ष्णान्ता षट्। स्त्रीलिङ्गनिर्देशः सङ्ख्यां विश्षयितुम्, तत्सामाथ्र्याच्च पूर्वत्र संज्ञापरमपि सङ्ख्याग्रहणमिह संज्ञिपरं संपद्यत इत्यदाशयेनाह–सङ्ख्येति। प्राचा तूपदेशकाले षान्ता नान्ता चेत्युक्तम्, तत् `पञ्चेत्यत्र नलोपे कृतेऽपी'त्यादिवक्ष्यमाणस्वग्रन्थविरुद्धम्। संप्रत्यनान्तत्वेऽप्युपदेशे नान्तत्वमासीदिति किमसिद्धत्वेनेति दिक्। संनिपातेति। तथा चोपदेशकाले इति व्याख्यानं निष्पलमपीति भावः। यत्त्वहुः–परिभाषाया अनित्यत्वाल्लक् स्यादिति, तत्साहसमात्रम्। इष्टस्थलेऽप्यप्रवृत्तौ परिभाषाया अकिञ्चित्करत्वापत्तेः। यदप्याहुः–`उपदेशग्रहणमिह कुतः समागत'मित्याशङ्क्य `ष्णान्ते'त्यन्तग्रहणसामथ्र्यादौपदेशिकत्वं लभ्यत इति। तदपि न। `सङ्क्ये'त्यस्याकर्षणेन संज्ञपरत्वसंपादनेन च सामर्थ्यो पक्षयात्।

Satishji's सूत्र-सूचिः

212) ष्णान्ता षट् 1-1-24

वृत्ति: षान्ता नान्ता च सङ्ख्या षट्सञ्ज्ञा स्यात्। A numeral stem ending in षकारः or नकारः gets the designation षट्।

गीतासु उदाहरणम् – श्लोकः bg18-13

पञ्चन् + शस् – Since पञ्चन् has the षट् सञ्ज्ञा by 1-1-24 we get = पञ्चन् 7-1-22 = पञ्च 8-2-7