Table of Contents

<<1-1-24 —- 1-1-26>>

1-1-25 डति च

प्रथमावृत्तिः

TBD.

काशिका

डत्यन्ता या सङ्ख्या सा षट्संज्ञा भवति। कति तिष्ठन्ति। कति पश्य।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

187 डत्यन्ता संख्या षट्संज्ञा स्यात्..

बालमनोरमा

257 डति च। `डती'त्यविभक्तिको निर्देशः। प्रत्ययत्वात्तदन्तग्रहणम्। पूर्वसूत्रा `त्संख्ये'त्यनुवर्तते। `ष्णान्ता षट्' इत्यतः `ष'डिति च। तदाह–डत्यन्तेति। संक्येति किम्। पतिः। अथ षट्संज्ञाकार्यं लुकं वक्ष्यन्नाह-प्रत्ययस्य लुक्। `अदर्शनं लोप' इत्यतोऽदर्शनमित्यनुवर्तते। प्रत्ययस्याऽदर्शनं लुक्श्लुलुप्संज्ञकं स्यादित्यर्थः प्रतीयते। एवं सति एकस्यैव प्रत्ययाऽदर्शनस्य तिरुआओऽपि संज्ञाः स्युः। ततश्च `हन्ती'त्यत्र शब्लुकि `श्लौ' इति द्वित्वं स्यात्। `जुहोती'त्यत्र श्लौ सति `उतो वृद्धिर्लुकि हली'ति वृद्धिः स्यात्।

तत्त्वबोधिनी

218 डति च। `ष्णान्ता ष'डित्यतः `ष'डित्यनुवर्तते। `सङ्ख्ये'ति पर्कृतं, `डती'त्यनेन विशेष्यते तदाह–डत्यन्ता सङ्ख्येति। सङ्ख्येति किम्? पतयः।

Satishji's सूत्र-सूचिः

101) डति च 1-1-25

वृत्ति: डत्यन्ता सङ्ख्या षट्सञ्ज्ञा स्यात् । Terms that have the संख्या-सञ्ज्ञा and end in the डति-प्रत्यय: get the षट्-सञ्ज्ञा।

उदाहरणम् – “कति” is a सङ्ख्या ending in the affix डति and so it gets the designation षट्।