Table of Contents

<<8-4-38 —- 8-4-40>>

8-4-39 क्षुभ्नादिषु च

प्रथमावृत्तिः

TBD.

काशिका

न इति वर्तते। क्षुभ्ना इत्येवम् आदिषु शब्देषु नकारस्य णकारदेशो न भवति। क्षुभ्नाति। अजादेशस्य स्थानिवद्भावादिह अपि प्रतिषेधो भवति। क्षुभ्नीतः। क्षुभ्नन्ति। नृनमनः पूर्वपदात संज्ञायाम् इति प्राप्तिः। छन्दस्यृदवग्रहात् 8-4-26 इति च प्राप्नोति। नन्दिन्, नन्दन, नगर, एतान्युत्तरपदानि संज्ञायां प्रयोजयन्ति हरिनन्दी। हरिनन्दनः। गिरिनगरम्। नृतिं यङि प्रयोजयन्ति नरीनृयते। तृप्नु तृप्नोति। नर्तन, गहन, नन्दन, निवेश, निवास, अग्नि, अनूप, एतानि उत्तरपदानि प्रयोजयन्ति। परिनर्तनम्, परिगहनम् इति संज्ञायाम् पूर्वपदात् संज्ञायाम् इति प्राप्नोति। परिनन्दनम् इत्यत्र उपसर्गादसमासे ऽपि इति प्राप्नोति। शरनिवेशः, शरनिवासः, शराग्निः, दर्भानूपः इत्येताः संज्ञाः। आचार्यादणत्वं च। आचार्यभोजीनः। आचार्यानी। इरिकादिभ्यो वनोत्तरपदेभ्यः संज्ञयाम्। इरिका, तिमिर, समीर, कुबेर, हरि, कर्मार इत्युत्तरपदवनशब्दस्थस्य संज्ञायाम्। क्षुभ्नादिराकृतिगणः। अविहितलक्षणो णत्वप्रतिषेधः क्षुभ्नादिषु द्रष्टव्यः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

720

बालमनोरमा

782 क्षुभ्नादिषु च। `रषाभ्या'मित्यतो `ण' इति, `न भाभूपूकमी'त्यतो `ने'ति चानुवर्तते। तदाह–एष्विति। दीर्घाह्नी प्रावृडिति। वर्षर्तौ प्रावृट्शब्दः स्त्रीलिङ्गः। `स्त्रियां प्रावृट् स्त्रियां भूम्नि वर्षाः' इत्यमरः। दीर्घाण्यहानि यस्मिन्निति बहुव्रीहिः। `अन उपधालोपिनोऽन्यतरस्या'मिति ङीप्। `अल्लोपोऽनः' इत्युपधालोपः। `अह्नोऽदन्ता'दिति णत्वं तु क्षुभ्नादित्वान्नेति भावः। ननु क्षुभ्नादिषु `दीर्घाह्नी'त्यस्य पाठो व्यर्थः, `अह्नोऽदन्तात्' इत्यत्र हि `अर्ह्ने'त्यदन्तात् षष्ठ\उfffद्र्थे प्रथमा। अदन्तपूर्वपदस्थान्निमित्तात्परस्याऽह्नशब्दस्य नस्य णत्वं स्यादिति तदर्थः। दीर्घाह्नीत्यत्र च ?ह्नादेशस्याप्रसक्त्याऽदन्तत्वाऽभावादेव णत्वस्याऽप्राप्तौ किं तन्नुवृत्त्यर्थेन क्षुभ्नादिपाठेनेत्यत आह–एवंचेति। एवं सति=दीर्घाह्नीशब्दस्य क्षुभ्नादिपाठे सति, एतदर्थम्–`अह्नोऽदन्ता'दिति णत्वनिवृत्त्यर्थम्, अह्नेत्यस्य अदन्तत्वानुसरणं, षष्ठ\उfffद्र्थे व्यत्ययेन प्रथमानुसरणं क्लेशावहं न कर्तव्यमित्यर्थः। क्षुभ्नादिपाठादेव णत्वनिवृत्तिसिद्धेरिति भावः। ननु दीर्घाह्नीत्यस्य णत्वाऽभावय किं क्षुभ्नादिपाठो।?भ्युपगम्यतामुत `अह्ने'त्यस्याऽदन्तत्वमित्यत्र विनिगमनाविरह इत्यत आह–प्रातिपदिकान्तेति। अथ `अह्नोऽदन्ता'दित्यत्र पूर्वपदविशेषणेऽदन्तादिति तपरत्वस्य प्रयोजनमाह–अदन्तादिति। पराह्न इति। `प्रादयो गताद्यर्थे' इति समासः, टच्, अव्ययात्परत्वादह्नादेशः परेति पूर्वपदस्याऽदन्तत्वाभावान्न णत्वमिति भावः।

तत्त्वबोधिनी

689 व्द्यह्नेति। `अह्नोऽह्न'इति सूत्रेऽह्नदेसं प्रत्यख्याय `अच्प्रत्यन्ववे'त्यतोऽचमनुवर्त्त्य `टजपवादोऽ'जिति व्याचक्षाणस्य भाष्यकारस्य मते तु निर्विवाद एवात्र टाप्। कथं तर्हि कालनिर्णयदीपिकायां व्द्यह्नीति प्रयोग इति चेत्, अत्राहुः–द्वे अहनी यस्यां तिथाविति बहुव्रीहौ नान्तलक्षणो ङीब्बोध्यः। `द्वयोरह्नोर्भव'इति व्याख्यानग्रन्थस्तु फलितार्थकथन परतया ज्ञेय इति। सङ्ख्यादिभिन्नस्य तत्पुरुषस्य समाहारे वृत्त्यसम्भवादाह—स्पष्टार्थमिति।

Satishji's सूत्र-सूचिः

वृत्तिः णत्वं न । The नकारः in the terms listed in the क्षुभ्नादि-गणः (list of terms beginning with “क्षुभ्ना”) does not take णकारः as a substitute.

The list of words enumerated in the क्षुभ्नादि-गणः is not exhaustive. This गण: is what is called as an आकृति-गण: – which is a class or group of words in which some words are actually mentioned and room is left to include others which are found undergoing the same operations. When we come across a term in accepted usage (शिष्ट-प्रयोगः) in which णत्वम् (णकारः substitution in place of a नकारः) should have taken place but has not, we should include such a term in the क्षुभ्नादि-गणः।

उदाहरणम् – पुनः पुनर्भृशं वा नृत्यति = नरीनृत्यते – is a frequentative/intensive form derived from √नृत् (नृतीँ गात्रविक्षेपे ४. १०)

The विवक्षा is लँट्, कर्तरि, यङन्त-प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
नृत् + यङ् 3-1-22
= नृत् + य 1-3-3, 1-3-9. Note: The affix “यङ्” is a ङित्। Hence 1-1-5 stops 7-3-86
= नृत्य् नृत्य 6-1-9
= नर् त्य् नृत्य 7-4-66, 1-1-51
= न नृत्य 7-4-60
= न रीक् नृत्य 7-4-90, 1-1-46
Note: 7-4-83 does not apply here because the कित् augment “रीक्” has been added to the अभ्यासः।
= न री नृत्य 1-3-3, 1-3-9
= नरीनृत्य 8-4-39 stops 8-4-2

“नरीनृत्य” gets धातु-सञ्ज्ञा by 3-1-32

Note: ङिदन्तत्वादात्मनेपदम् । Since a यङन्त-धातुः ends in the affix “यङ्” which is a ङित्, as per 1-3-12 अनुदात्तङित आत्मनेपदम् a यङन्त-धातुः takes आत्मनेपद-प्रत्ययाः।
नरीनृत्य + लँट् 3-2-123 = नरीनृत्य + त 3-4-78, 1-3-12 = नरीनृत्यते