Table of Contents

<<8-4-11 —- 8-4-13>>

8-4-12 एकाजुत्तरपदे णः

प्रथमावृत्तिः

TBD.

काशिका

एकाजुत्तरपदं यस्य स एकाजुत्तरपदः, तस्मिन्नेकाजुत्तरपदसमासे प्रातिपदिकान्तनुंविभक्तिसु पूर्वपदस्थान्निमित्तादुत्तरस्य नकारस्य णकारः आदेशो भवति। वृत्रहणौ। वृत्रहणः। नुमि क्षीरपाणि। सुरापाणि। विभक्तौ क्षीरपेण। सुरापेण। णः इति वर्तमाने पुनर्णग्रहणं विकल्पाधिकारनिवृत्तेः विस्पष्टीकरणार्थम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

288 एकाजुत्तपरदं यस्य तस्मिन्समासे पूर्वपदस्थान्निमित्तात्परस्य प्रतिपदिकान्तनुम्विभक्तिस्थस्य नस्य णः. वृत्रहणौ..

बालमनोरमा

305 एकाजुत्तरपदे णः। समासस्य चरमावयवे रूढेन उत्तरपदशब्देन समास इति लभ्यते। एकोऽच्यस्मिन्तत्-एकाच्, तदुत्तरपदं यस्य स एकाजुत्तरपदः। तस्मिन्समासे इति बहुव्रीहिगर्भो बहुव्रीहिः। `रषाभ्यां नो णः' इत्यनुवर्तते। `पूर्वपदात्संज्ञाया'मित्यतः पूर्वपदादित्यनुवर्तते। पूर्वं पदं यस्य तत्पूर्वपदम्। एकत्वमविवक्षितम्। पूर्वपदस्थाभ्यामिति लभ्यते। `प्रातिपदिकान्तनुम्विभक्तिषु चे'त्यनुवर्तते। `विद्यमानस्ये'ति शेषः। तदाह– एकाजुत्तरपदमित्यादिना। नन्विह णकारग्रहणं व्यर्थं, `रषाभ्यां नो णः' इत्यत एव तदनुवृत्तिसिद्धेः। नच `प्रातिपदिकान्तनुम्विभक्तिषु चे'ति विकल्पनिवृत्त्यर्थं पुनर्णग्रहणमिति वाच्यम्, आरम्भ सामथ्र्यादेव नित्यत्वसिद्धेरित्यत आह–आरम्भेति। यणमिति। `दृन्करे'ति यणमित्यर्थः। पुनर्भूणामिति। रेफस्य `हशि चे'त्युत्त्वं तु न, रोरेव तद्विधानात्। ङेराम्, पुनर्भ्वाम्। वर्षाभूशब्दे विशेषमाह–भेकेति। `बह्वादिभ्यश्चे'ति ङीषो वैकल्पिकत्वान्ङीषभावे वर्षाभूशब्दः। स च भेकजातौ द्विलिङ्गः। `भेक्यां पुनर्नवायां स्त्री वर्षाभूर्दर्दुरे पुमान्' इति यादवः। दर्दुरो भेकः। एवं च `लिङ्गान्तरानभिधायकत्वमि'ति कैयटमते नित्यस्त्रीलिङ्गत्वाऽभावान्नदीत्वाऽभावे सति `अम्बार्थे'ति ह्यस्वाऽभावे सति हे वर्षाभूरिति रूपमित्यर्थः। मतान्तरे त्विति। `पदान्तरं विनापि स्त्रियां वर्तमानत्व'मिति वृत्तिकारादीनां मते तु वर्षाभूशब्दस्य भेकजातौ स्त्रीलिङ्गमात्रावगमात्कैयटमतेऽपि नित्यस्त्रीत्वं कुतो न स्यादित्यत आह– भेक्यामिति। यादवकोशानुसारादमरकोशे स्त्रीग्रहणमुपलक्षणमिति भावः। यद्वा अमरमतरीत्या कैयटमतेऽपि नित्यस्त्रीत्वमस्तु। अजादौ `एरनेकाचः' इति यणो `न भूसुधियोः' इति निषेधे प्राप्ते `वर्षाभ्वश्चे'ति यणः प्रतिप्रसव उक्तः। तं स्मारयति-वर्षाभ्वश्चेति। स्वयम्भूः पुंविदिति। स्वयम्भूशब्दस्य चतुरानने रूढत्वात्तस्य यौगिकस्य पदान्तरं विना स्त्रियामवृत्तेर्न वृत्तिमते नित्यस्त्रीत्वम्। कैयटमते तु अनेकलिङ्गत्वान्न नित्यस्त्रीत्वमितिभावः। इत्यूदन्ताः। अथ ऋदन्ताः। `सावसेरृन्' इति सौ उपपदे असधातोः ऋन्प्रत्यये स्वसृशब्दः, भगिनीवाची।

तत्त्वबोधिनी

267 एकाच्। एकोञ्च् य\उfffद्स्मस्तदेकाच्। तदत्तरपदं यस्य स `एकाजुत्तरपद' इति बहुव्रीहिगर्भो बहुव्रीहिः। उत्तरपदशब्दः समासावयवे रूढः। तेनाक्षिप्तः समासोऽनेनविशेष्यत इत्याह–तस्मिन्मास इति। `रषाभ्यां नो णः'इत्यतो `ण'इत्युनुबत्र्तमानेऽपि णग्रहणमिह नित्यार्थमावश्यकमित्याशङ्क्याह– आरम्भसमाथ्र्यादिति। `प्रतिपदिकान्तनुम्बिभक्तिषु चे'ति विकल्पने (णत्व)सिद्धावेतदारम्भसामथ्र्यादित्यर्थः। स्वयंभूः पुंवदिति। मतद्वयेऽपि नदीसंज्ञाया आभावान्ङिति ह्यस्वश्चेत्यादि न प्रवर्तत इति भावः।

Satishji's सूत्र-सूचिः

197) एकाजुत्तरपदे णः 8-4-12

वृत्ति: एकाजुत्तरपदं यस्य तस्मिन्समासे पूर्वपदस्थान्निमित्तात्परस्य प्रातिपदिकान्तनुँम्विभक्तिस्थस्य नस्य णः स्यात्। The नकारः, at the end of a प्रातिपदिकम्, of the augment नुँम् or in a विभक्तिः affix, gets णकारः as a replacement, when the निमित्तम् (cause – रेफः, षकारः, ऋवर्णः) that brings about the णत्वम् is present in the former member of a compound and the latter member of that compound has only one vowel.

उदाहरणम् – वृत्रहन् + औ = वृत्रहन् + औ 6-4-8 is stopped by 6-4-12 = वृत्रहणौ, the रेफः in the term वृत्र causes the प्रातिपदिकान्तनकारः to become a णकारः by 8-4-12, because the latter part (हन्) of the compound has only one vowel.