Table of Contents

<<8-4-10 —- 8-4-12>>

8-4-11 प्रातिपदिकान्तनुम्विभक्तिषु च

प्रथमावृत्तिः

TBD.

काशिका

वा इति वर्तते। प्रातिपदिकान्ते नुमि विभक्तौ च यो नकारः तस्य पूर्वपदस्थान्निमित्तादुत्तरस्य् वा णकार आदेशो भवति। प्रातिपदिकान्ते तावत् माषवापिणौ, माषवापिनौ। नुमि माषवापाणि, माषवापानि। व्रीहिवापाणि, व्रीहिवापानि। विभक्तौ माषवापेण, माषवापेन। व्रीहिवापेण, व्रीहिवापेन। पूर्वपदाधिकारादुत्तरपदस्य प्रातिपदिकस्थो यो ऽन्त्यो नकारः तस्य इदं णत्वम् इष्यति। इह हिन भवति, गर्गाणां भगिनी गर्गभगिनी। यदा त्वेवं भवति, गर्गाणां भगो गर्गभगः, गर्गभगो ऽस्या अस्ति इति गर्गभगिणी इति, तदा मातृभोगीणवन्नित्यम् एव णत्वेन भवितव्यम्। माषवापिणी, माषवापिनी इत्यत्र तु गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक्षुबुत्पत्तेः इति कृदन्तेन एव समासे सति प्रातिपदिकस्य उत्तरपदस्य एव सतो नकारो भवति। तथा च अत्र नुंग्रहणम् कृतम्। स हि समुदायभक्तत्वादुत्तरपदस्य अन्तो न भवति। युवादीनां प्रतिषेधो वक्तव्यः। आर्ययूना। क्षत्रिययूना। प्रपक्वानि। दीर्घाह्नी शरद्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1040 प्रातिपदिकान्त। पूर्वपदस्थादिति। `पूर्वपदात्संज्ञाया'मित्यतस्तदनुवृत्तेरिति भावः। एषु स्थितस्येति। प्रातिपदिकान्ते नुमि विभक्तौ च विद्यमानस्येत्यर्थः। वा स्यादिति। `वा भावकरणयो'रित्यतस्तदनुवृत्तेरिति भावः। प्रातिपदिकान्ते इति। `उदाहरणं वक्ष्यते' इति शेषः। माषवापिणाविति। माषान् वपेते इति विग्रहः। `बहुलमाक्षीक्ष्ण्ये' इति जातावपि सुप्युपपदे णिनिः। उपपदसमासः। वापिन्शब्दस्य कृदन्तत्वेन प्रातिपदिकत्वात्तदन्तनस्य णत्वमिति भावः। नुमीति। `उदाह्यियते' इति शेषः। व्रीहिवापाणीति। `कृषीवलकुलानी'ति शेषः। व्रीहिन्वपन्ती'ति विग्रहः। कर्मण्यण्। व्रीहिवापशब्दान्नपुंसकात् `जश्शसोश्शिः' `नपुंसकस्य झलचः' इति नुमि `सर्वनामस्थाने चे'ति दीर्घः। नुमो नस्य णत्वमिति भावः। विभक्ताविति। `उदाह्यियते' इति शेषः। माषवापेणेति। तृतीयाविभक्तिस्थत्वान्नस्य णत्वम्। इत्यादीति। णत्वाऽभावपक्षे माषवापिनौ, माषवापानि, माषवापेनेत्युदाहार्यमिंति भावः। गर्गाणां भगिनी गर्गभगिनीत्यत्र ङीप्प्रत्ययप्रकृतिभूतभगिन्शब्दात्मकप्रातिपदिकान्तत्वान्नकारस्य णत्वविकल्पः कुतो न स्यादित्यत आह–उत्तरपदं यत्प्रातिपदिकं तदन्तस्यैव णत्वमिति। पूर्वपदेन उत्तरपदमाक्षिप्तम्। तच्च प्रातिपदिकस्यैव विशेषणं, नतु तदन्तस्य, नापि नुम्विभक्त्योः, असंभवादिति भावः। षष्ठीसमासे भगिनीशब्द उत्तरपदं, नतु तत्प्रातिपदिकं, प्रत्ययान्तत्वात्। लिङ्गविशिष्टपरिभाषया प्रातिपदिकग्रहणेन भगिनीशब्दस्य ग्रहणे।ञपि तदन्तमीकार एव, नतु नकारः, अतो न तस्येदं पाक्षिकं णत्वमिति भावः। प्रातिपदिकस्योत्तरपदत्वविशेषणं सूत्रकारस्य संमतमित्याह–अत एवेति। प्रातिपदकस्य उत्तरपदत्वविशेषणादेव, सूत्रकारेण कृतं नुम्ग्रहणमर्थवत्, अन्यथा तदनर्थकमित्यर्थः. कुत इत्यत आह– अङ्गस्येति। `नपुंसकस्य झलचः' इति नुम्विधावङ्गस्येत्यनुवृत्तम्। तथाच झलन्तस्याऽजन्तस्य चाऽङ्गस्य क्लीबस्य नुम् स्यात्सर्वनामस्थाने इत्यर्थो लभ्यते। `माषवापाणी'त्यत्र तु सर्वनामस्थानं प्रति माषवापशब्दोऽङ्गम्। तस्य माषवापशब्दस्य विहितो नुमागमस्तदवयव एव भवति, नतु उत्तरपदभूतवापशब्दस्यैवाऽवयवः। तथाच उत्तरपदभूतप्रातिपदिकान्तत्वाऽभावात् `प्रातिपदिकान्ते'त्यनेन णत्वविकल्पस्याऽप्राप्तौ नुम्ग्रहणम्। प्रातिपदिकस्य उत्तरपदत्वं विशेषणाऽभावे तु माषवापशब्दान्तावयवस्य नुमो माषवापेति प्रातिपदिकान्तावयवत्वस्य सत्त्वात् `प्रातिपदिकान्ते'त्येव सिद्धे नुम्ग्रहणं व्यर्थं स्यादित्यर्थः। तदेव#ं प्रातिपदिकस्य उत्तरपदत्वविशेषणे नुम्ग्रहणं लिङ्गमिति स्थितम्। वस्तुतस्तुं नेदं लिङ्गमित्याह–किंञ्चेति। किञ्चेति विशेषप्रदर्शने। `हिवि प्रीणने' भ्वादिः, इदित्त्वात् नुम्, लटः शत्रादेशः। `माषवापाणी'त्यत्र नुमो नस्य प्रातिपदिकान्तत्वेपि प्रहिण्बन्शब्दे नुमो नस्य प्रातिपदिकान्तत्वाऽभावात् `प्रातिपपदिकान्ते'त्यनेन णत्वविकल्पस्याऽप्राप्तेस्तदर्थं नुम्ग्रहणमावश्यकम्। अत उत्तरपदत्वस्य प्रातिपदिकविशेषणत्वे कथं नुम्ग्रहणं लिङ्गं स्यात्। तस्मादुत्तरपदविशेषणे भाष्यमेव शरणमिति भावः। ननु माषवापिणावित्यत्र `वापिन्नि'ति प्रातिपदिकस्य कथमुत्तरपदत्वं, `गतिकारकोपपदानां कृद्भिः सह समासवचन'मिति सुबुत्पत्तेः प्रागेव समासप्रवृत्तेरिति चेत्, न उत्तरपदशब्दस्य समासचरमावयवे रूढत्वादित्यलम्। ननु `इवि व्याप्तौ' इदित्त्वान्नुम्। ल्युटि अनादेशः। प्रकृष्टमिन्वनमिति प्रादिसमासे नुमो नकारस्य णत्वविकल्पः स्यादित्यत आह– प्रेन्वनमिति। रम्ययूनेति। रम्यश्चासौ युवा चेति विग्रहः। प्रातिपदिकान्तनकार त्वात्प्राप्तिः। परिपक्वानीति। इह नुमो नकारस्य `प्रातिपदिकान्ते'ति विकल्पं बाधित्वा `कुमति चे'ति नित्यं णत्वं प्राप्तम्, तदिह, युवादित्वान्निषिध्यते। एकाजुत्तरपदे णः। अजन्तस्त्रीलिङ्गे पुनर्भूशब्दनिरूपणे व्याख्यातमपि प्रकरणानुरोधात्स्मर्यते। नित्यमित्युक्तमिति। `आरम्भसामथ्र्यान्नित्यमिदं णत्व'मिति तत्रैवोक्तमित्यर्थः। हरिमाणीति। मनेण्र्यन्तात् `क्विप् चे'ति क्विपि `गतिकारकोपपदाना'मिति सुबुत्पत्तेः प्राक् समासः। नान्तत्वान्ङीप्। अत्र`मा'निति प्रातिपदिकमुत्तरपदं तदन्तत्वान्नकारस्य णत्वविकल्पे प्राप्ते नित्यं णत्वम्। नुमीति। `उदाह्यियते' इति शेषः। क्षीरपाणीति। कर्मण्युपपदे पाधातोः `आतोऽनुपसर्गे कः' इति कः, `आतो लोप इटि चे'त्याल्लोपः। क्षीरपशब्दाज्जश्शसोश्शिः। अजन्तलक्षणो नुम्। दीर्घः। तस्य नित्यं णत्वमम्। विभक्ताविति। `उदाह्यियते' इति। शेषः। क्षीरपेणेति। विभक्तिस्थत्वान्न नित्यं णत्वम्। विभक्तावुदाहरणान्तरमाह–रम्यविणेति। विः=पक्षी, रम्यश्चासौ विश्च, तेनेति विग्रहः। नचात्र `पदव्यवायेऽपी'ति निषेधः शङ्क्यः। किमिह प्रत्ययलक्षणे अन्तर्वर्तिर्नीं विभक्तिमाश्रित्य `सुप्तिङन्त'मिति पदत्वमभिमतम्, उत तृतीयाविभक्तौ परतः `स्वादिषु' इति पदत्वम् ?। नाद्यः। `उत्तरपदत्वे चापदादिविधौ' इति प्रत्ययलक्षमप्रतिषेधात्। न द्वितीयः। `स्वादिषु' इत्यनेन हि रम्यविशब्दस्यैव पदत्वं लभ्यते, नतु विशब्दस्य , तृतीयाविभक्तेः समुदायादेव विधानात्। अत एव `पुनर्भूणा'मित्यत्र नामि भूशब्दमात्रस्य पदत्वाऽभावात् `पदव्यवायेऽपि' इति निषेधाऽभावाण्णत्वमिति प्राञ्चः। अत्र यद्वक्तव्यं तत् `पदत्वयवायेऽपीत्यत्रानुपदमेव वक्ष्यते।

तत्त्वबोधिनी

870 माषवापिणाविति। `बहुलमाभूक्ष्ण्ये'इति णिनिः। व्रीहिवापाणीति। कर्मण्यण्।\र्\नुत्तरपदं यत्प्रातिपदिकं तदन्तस्यैव णत्वम्। उत्तरपदं यदिति। इष्टानुरोधेन तथा व्याख्यायत इति भावः। गर्गभगिनीति। इह भगिनीशब्द उत्तरपदं, न तु भगिन्शब्दः। अत्र च व्याख्याने नुम्ग्रहणमेव ज्ञापकमिति प्राचां मतमाह–अतएवेति। तदुक्तं ज्ञापकं विघटयति –किंचेति। नित्यं णत्वं प्राप्तम्। एकाजुत्तर। प्राग्व्याख्यातमपि प्रकरणानुरोधेन स्मार्यते। वृत्रहणाविति। वृत्रं हतवृन्तौ। `ब्राहृभ्रूणे'ति क्विप्। हरिमाणीति। मनेण्र्यन्तात् `क्वीप् चे'ति क्विप्। `गतिकारकोपपदाना'मित्यादिना सुबुत्पत्तेः प्राक्समासान्नकारान्तमुत्तरपदम्। नान्तत्वान्ङीप्। क्षीरपाणीति। पिबतेः कर्मण्युपपदे `आतोऽनुपसर्गे' इति कः। `आतो लोप इटि चे'त्यालोपः। रम्यविणेति। रम्यश्चासौ विश्चेति विग्रहः। तत `आङो नाऽस्त्रियाम्'। नन्वन्तर्वर्तिनीं विभक्तिमाश्रित्य विशब्दस्य पदत्वात् `पदव्यवायेपी'ति णत्वनिषेधः स्यात्। मैवम्। `उत्तरपदत्वे चापदादिविधौ'इति प्रत्ययलक्षणप्रतिषेधेन विशब्दस्य पदत्वाऽभावात्। `स्वादिषु' इत्यनेन तु रम्यविशब्दस्यैव पदत्वं न तु विशब्दस्य। यस्मात्स्वादिविधिस्तस्यैव पदत्वाभ्युपगमात्। एवं च पुनर्भूणामित्यत्र णत्वं निर्बाधमेव, नामि परतो भूशब्दस्य पदत्वाऽभावात्।

Satishji's सूत्र-सूचिः

TBD.