TBD.
सुषामादिषु शब्देषु सकारस्य मूर्धन्यादेशो भवति। शोभनं साम यस्य असौ सुषामा ब्राह्मणः। दुष्षामा। निष्षामा। निष्षेधः। दुष्षेधः। सुशब्दस्य कर्मप्रवचनीयसंज्ञाकत्वान् निर्दुर्शब्दयोश्च क्रियान्तरविषयत्वादनुपसर्गत्वे सति पाठो ऽयम्। सेधतेर् गतौ 8-3-113 इति वा प्रतिषेधबाधनार्थः। सुषन्धिः। दुष्षन्धिः। निष्षन्धिः। सुष्ठु। दुष्ठु। तिष्ठतेरुणादिष्वेतौ व्युत्पाद्येते। गौरिषक्थः संज्ञायाम्। ङ्यापोः संज्ञाछन्दसोर् बहुलम् 6-3-63 इति पूर्वपदस्य ह्रस्वत्वम्। प्रतिष्णिका। प्रतिष्णाशब्दादयं कन् प्रत्ययः। जलाषाहम्। नौषेचनम्। दुन्दुभिषेवणम्। एति संज्ञायामगात्। एकारपरस्य सकारस्य मूर्धन्यादेशः भवति इण्कोरुत्तरस्य अगकारात् परस्य संज्ञायां विषये। हरिषेणः। वारिषेणः। जानुषेणी। एति इति किम्? हरिसक्थम्। संज्ञायाम् इति किम्? पृथ्वी सेना यस्य स पृथुसेनो राजा। अगातिति किम्? विष्वक्षेनः। इण्दोः इत्येव, सर्वसेनः। नक्षत्राद् वा। नक्षत्रवाचिनः शब्दादुत्तरस्य सकारस्य वा एति संज्ञायाम् अगकारात् मूर्धन्यो भवति। रोहिणीषेणः, रोहिणीसेनः। भरणीषेणः, भरणीसेनः। अगकारातित्येव, शतभिषक्षेनः। अविहितलक्षणो मूर्धन्यः सुषामादिषु द्रष्टव्यः।
TBD.
–
1007 सुषामादिषु च।स्पष्टम्
–
TBD.