Table of Contents

<<8-3-112 —- 8-3-114>>

8-3-113 सोढः

प्रथमावृत्तिः

TBD.

काशिका

सहिरयं सोधभूतो गृह्यते। तस्य सकारस्य मूर्धन्यादेशो न भवति। परिषोढः। परिसोढुम्। परिसोढव्यम्। सोढभूतग्रहणं किम्? परिषहते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

122 सेधतेः। न षत्वमिति। `न रपरे'त्यतो नेत्यनुवृत्तेरिति भावः। गङ्गां विसेधतीति। गच्छतीत्यर्थः। इह `उपसर्गात्सुनोती'ति षत्वं न भवति। अनन्तरस्येति न्यायेन उपसर्गात्सुनोतीत्यस्यैवायं निषेधः,न त्वादेशप्रत्ययोरित्यस्यापि। तेन सिषेधेत्यादौ आदेशप्रत्ययोरिति षत्वं भवत्येव। षिधू इति। ननु वाक्यसङ्घविशेषात्मकस्य शास्त्रस्य अक्रियारूपतवात्कथं धात्वर्थत्वमित्यत आह— शास्त्रं शासनमिति। माङ्गल्यं तु– शुभकर्म। षिध गत्यामितिवदस्यापि रूपाणि।

तत्त्वबोधिनी

97 सेधतेर्गतौ। श्तिपा निर्देशाद्गत्यर्थादस्माद्यङ्लुकि न निषेधः,तेनोपसर्गमाश्रित्य षत्वं भवत्येव– `विषेषिधीति'। न च सेदेति शपा निर्देशाद्यङलुकि `उपसर्गात्सुनोती'ति षत्वं न भवेदिति शङ्क्यं,दैवादिकनिवृत्त्यर्थतया शपा निर्देशस्य चरितार्थतत्वात्। अन्यथा सेधतेरिति श्तिपा निर्देशस्य वैयथ्र्यापत्तेरिति दिक्। षिधू शास्त्रे। माङ्गस्यं- मङ्गलक्रिया। स्वार्थे ष्यञ।

Satishji's सूत्र-सूचिः

TBD.