Table of Contents

<<8-3-96 —- 8-3-98>>

8-3-9 अम्बाऽम्बगोभूमिसव्यापद्वित्रिकुशेकुशङ्क्वङ्गुमञ्जिपुञ्जिपरमेबर्हिर्दिव्यग्निभ्यः स्थः

प्रथमावृत्तिः

TBD.

काशिका

अम्ब आम्ब गो भूमि सव्य अप द्वि त्रि कु शेकु शङ्कु अङ्गु मञ्जि पुञ्जि परमे बर्हिस् दिवि अग्नि इत्येतेभः उत्तरस्य स्थशब्दसकारस्य मूर्धन्यादेशो भवति। अम्बष्ठः। आम्बष्थः। गोष्ठः। भूमिष्ठः। सव्येष्ठः। अपष्ठः। द्विष्ठः। त्रिष्ठः। कुष्ठः। शेकुष्ठः। शङ्कुष्ठः। अङ्गुष्ठः। मञ्जिष्ठः। पुञ्जिष्ठः। परमेष्ठः। वर्हिष्ठः। दिविष्ठः। अग्निष्ठः। स्थास्थिन्स्थृ\उ0304णाम् इति वक्तव्यम्। सव्येष्ठाः। परमेष्ठी। सव्येष्ठृसारथिः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

734 अम्बाम्ब। अम्ब, आम्ब, गो, भूमि, सव्ये, अप, द्वि, त्रि, कुशे, कु , शङ्कु, अङ्गु, मञ्जि, पुञ्जि, परमे, बर्हिस्, दिवि, अग्नि– एषामष्टादशानां द्वन्द्वः। अम्बष्ठः, आम्बष्ठः, गोष्ठः,भूमिष्ठः। सव्येष्ठः। निपातनादलुक्। `हलन्तात्सप्तम्याः' इति वा। अपष्ठः। एषु कतिपयेषु `सात्पदाद्यो'रिति निषेधः प्राप्तः। एवमग्रेऽपि। द्विष्ठ इति। द्वाभ्यां तिष्ठतीति विग्रहः। एवं त्रिष्ठः, कुशेष्ठः, कुष्ठः, शङ्कुष्ठ अङ्गुष्ठः मञ्जिष्ठः, पुञ्जिष्ठः। परमेष्ठः, निपातनादलुक्, `हलदन्ता'दिति वा। वर्षिष्ठः। दिविष्ठः। पूर्ववदलुक्। अग्निष्ठः। कप्रत्ययान्तस्येति। भूमिस्थितम्। इत ऊध्र्वमिति। `तुन्दशोकयो'रित्यारभ्येत्यर्थः। सुपीत्यस्येति। नतु कर्मणीत्यस्य , असंभवादिति भावः।

तत्त्वबोधिनी

613 अम्बाम्ब। कप्रत्ययान्तस्येति। तेन भूमिस्थितं गोस्थानमित्यादौ नेति भावः। प्राचा तु `स्थस्य सस्ये'ति व्याख्यातव्ये `स्थ सस्ये'ति व्याख्यातं, तदाकरविरोधेन `कप्रत्ययान्तस्ये'त्यध्याह्मत्य व्याख्येयम्। द्विष्ठः त्रिष्ठ इति। द्वयोस्तिष्ठतीत्यादि विग्रहः। एवमम्बष्ठः आम्बष्ठः गोष्ठः भूमिष्ठः सव्यष्ठः अपष्ठः कुशेष्ठः कुष्ठः शङ्कुष्ट अङ्गुष्ठः पुञ्जिष्ठ परमेष्ठः बर्हिष्ठः दिविष्ठः अग्निष्ठः। आभ्यामिति। `परिमृजापनुदो'रित्यत्र पञ्चम्यर्थे षष्ठीति भावः।

Satishji's सूत्र-सूचिः

TBD.