Table of Contents

<<8-3-98 —- 8-3-100>>

8-3-99 ह्रस्वात् तादौ तद्धिते

प्रथमावृत्तिः

TBD.

काशिका

ह्रस्वादुत्तरस्य सकारस्य मूर्धन्यादेएशो भवति तादौ तद्धिते परतः। तरप् तमप् तय त्व तल् त्यप्, एतानि प्रयोजयन्ति। तरप् सर्पिष्टरम्। यजुष्तरम्। तमप् सर्पिष्टमम्। यजुष्टमम्। तय चतुष्टये ब्राह्मणानां निकेताः। त्व सर्पिष्ट्वम् यजुष्ट्वम्। तल् सर्पिष्टा। यजुष्टा। तस् सर्पिष्टः। यजुष्टः। त्यप् आविष्ट्यो वर्धते। ह्रस्वातिति किम्? गीस्तरा। धूस्तरा। तादौ इति किम्? सर्पिस्साद् भवति। प्रत्ययसकारस्य सात् पदाद्योः 8-3-111 इति सत्यपि प्रतिषेधे प्रकृतिसकारस्य स्यात्। तद्धिते इति किम्? सर्पिस्तरति। तिङन्तस्य प्रतिषेधो वक्तव्यः। भिन्द्युस्तराम्। छिन्द्युस्तराम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1008 एति संज्ञायामगात्। एकारे परे सस्य षः स्यादित्यर्थः।

तत्त्वबोधिनी

855 एति संज्ञायामिति। सुषामाद्यन्तर्गणसूत्रमेतत्।

Satishji's सूत्र-सूचिः

TBD.