Table of Contents

<<6-3-62 —- 6-3-64>>

6-3-63 ङ्यापोः संज्ञाछन्दसोर् बहुलम्

प्रथमावृत्तिः

TBD.

काशिका

ङ्यन्तस्य अबन्तस्य च संज्ञाछन्दसोः बहुलं ह्रस्वो भवति। ङ्यन्तस्य संज्ञायाम् रेवतिपुत्रः। रोहिणिपुत्रः। भरणिपुत्रः। न च भवति। नान्दीकरः। नान्दीघोषः। नान्दीविशालः। ग्यन्तस्य छन्दसि कुमारिदा प्रफर्विदा। न च भवति। फल्गुनीपौर्णमासी। जगतीछदः। आबन्तस्य संज्ञायाम् शिलवहम्। शिलप्रस्थम्। न च भवति। लोमकागृहम्। लोमकाषण्डम्। आबन्तस्य छन्दसि अजक्षीरेण जुहोति। ऊर्णम्रदाः पृथिवी दक्षिणावत। न च भवति। ऊर्णासूत्रेण कवयो वयन्ति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

986 ङ्यापोः। `उत्तरपदे ह्यस्वः स्या'दिति शेषः। रेवतिपुत्र इति। कस्यचित्संज्ञेयम्। अथ छन्दस्युदाहरति–अजक्षीरमिति। अजायाः क्षीरमिति विग्रहः। `परमं वा एतत्पयो यदजक्षीर'मिति तैत्तिरीये।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.