Table of Contents

<<8-3-37 —- 8-3-39>>

8-3-38 सो ऽपदादौ

प्रथमावृत्तिः

TBD.

काशिका

सकार आदेशः भवति विसर्जनीयस्य कुप्वोः अपदाद्योः परतः पाशकल्पककाम्येषु। याप्ये पाशप् 5-3-57 पयस्पाशम्। ईषदसमाप्तौ कल्पप् पयस्कल्पम्। यशस्कल्पम्। प्रागिवात् कः 5-3-70 पयस्कम्। यशस्कम्। काम्यच् पयस्काम्यति। यशस्काम्यति। अपदादौ इति किम्? पय\उ1ए96 कामयते। पय\उ1ए2ब् पिबति। सो ऽपदादावित्यनव्ययस्य इति वक्तव्यम्। इह मा भूत्, प्रातः कल्पम्, पुनः कल्पम् इति। रोः काम्ये नियमार्थम्। रोरेव काम्ये न अन्यस्य इति नियमार्थं वक्तव्यम्। पयस्काम्यति। यशस्काम्यति। इह म भूत्, गीः काम्यति। धूः काम्यति। उपध्मानीयस्य कवर्गे परतः सकारादेशो भवति इति वक्तव्यम्। किं प्रयोजनम्? उब्जिरुपध्मानीयोपधः पठ्यते इति दर्शने अभ्युद्गः, समुदगः इति यथा स्यात्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

983 पाशकल्पककाम्येषु विसर्गस्य सः..

बालमनोरमा

तत्त्वबोधिनी

123 सोऽपदादौ। अपदाद्योरिति। सूत्रे व्यत्ययेन एकवचनम्। यदि तु `विसर्जनीयस्य सः' `शर्परे विसर्जनीयः' इत्यत्र मण्डूकप्लुत्यानुवर्तितो यः खर् स इहाप्यनुवत्र्य विशेष्येत `अपदादौ री'ति, तदा यथाश्रुतं साधु। परन्तु पनर्मण्डूकप्लुत्याऽनुवर्तने क्लेश इति भावः। अन्ये त्वाहुः-पुनर्मण्डूकप्लुति विनाप्यनुवर्त्तितुं शक्यः, `वा शरी'त्यत्र शरा खरं विशेष्य `शर्रूपे खरी'ति व्याख्याने, `कुप्वो'रिति सूत्रे `कुप्वोः खरी'ति व्याख्याने च क्षत्यभावादिति। `ईषदसमाप्तौ कल्पप्'। `अज्ञाते' `कुत्सिते' इति कः। `काम्यच्चे'ति काम्यच्। पाशकल्पककाम्येष्विति वृत्तिः। सम्भवदर्शनमेतन्नतु परिगणनम्, अन्यस्याऽसम्भवात्। प्रातःकल्पमिति। अधिकरणशक्तिप्रधानस्यापि `प्रातः' शब्दस्येह वृत्तिविषये शक्तिमत्परत्वं, `दोषाभूतमहः' दिवाभूत रात्रि'रितिवत्। सत्वनिषेधेऽपीह `इणः षः' इति षत्वं स्यादिति वाच्यं, तत्रापि `काम्ये रोरेव'त्यस्याऽनुवृत्तेः। यदि तु `इणः षः' इत्यत्रैवेदं पठ\उfffद्ते तर्हि षत्वमात्रप्रतिषेधेऽपि पूर्वेण सत्वं स्यात्।

Satishji's सूत्र-सूचिः

TBD.