Table of Contents

<<8-3-38 —- 8-3-40>>

8-3-39 इणः षः

प्रथमावृत्तिः

TBD.

काशिका

अपदादौ इति वर्तते। इणः उत्तरस्य विसर्जनीयस्य षकारादेशो भवति कुप्वोरपदाद्योः परतः पाशकल्पककाम्येषु। पाश सर्पिष्पाशम्। यजुष्पाशम्। कल्प सर्पिष्कल्पम्। यजुष्कल्पम्। क सर्पिष्कम्। यजुष्कम्। काम्य सर्पिष्काम्यति। यजुष्काम्यति। अपदादौ इत्येव, अग्निः करोति। वायुः करोति। अग्निः पचति। वायुः पचति। कुप्वोः इत्येव, सर्पिस्ते। यजुस्ते। इत उत्तरं सः इति, इणः सः इति च वर्तते। तत्र इणः परो यो विसर्जनीयः तस्य षकारो भवति, अन्यस्य सकारो भवति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

985 इण उत्तरस्य विसर्गस्य षः पाशकल्पककाम्येषु परेषु. प्रियसर्पिष्कः..

बालमनोरमा

–

तत्त्वबोधिनी

124 इणः षः। सोऽपदादावित्यस्यापवादः।

Satishji's सूत्र-सूचिः

TBD.