Table of Contents

<<8-3-38 —- 8-3-40>>

8-3-39 इणः षः

प्रथमावृत्तिः

TBD.

काशिका

अपदादौ इति वर्तते। इणः उत्तरस्य विसर्जनीयस्य षकारादेशो भवति कुप्वोरपदाद्योः परतः पाशकल्पककाम्येषु। पाश सर्पिष्पाशम्। यजुष्पाशम्। कल्प सर्पिष्कल्पम्। यजुष्कल्पम्। क सर्पिष्कम्। यजुष्कम्। काम्य सर्पिष्काम्यति। यजुष्काम्यति। अपदादौ इत्येव, अग्निः करोति। वायुः करोति। अग्निः पचति। वायुः पचति। कुप्वोः इत्येव, सर्पिस्ते। यजुस्ते। इत उत्तरं सः इति, इणः सः इति च वर्तते। तत्र इणः परो यो विसर्जनीयः तस्य षकारो भवति, अन्यस्य सकारो भवति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

985 इण उत्तरस्य विसर्गस्य षः पाशकल्पककाम्येषु परेषु. प्रियसर्पिष्कः..

बालमनोरमा

तत्त्वबोधिनी

124 इणः षः। सोऽपदादावित्यस्यापवादः।

Satishji's सूत्र-सूचिः

TBD.