TBD.
द्वयोरर्थयोर् वचनं द्विवचनम् विभक्तव्यो विभज्यः। निपातनाद् यत् भवति। द्व्यर्थे विभज्ये च उपपदे प्रातिपदिकात् तिङन्ताच् च अतिशायने तरबीयसुनौ प्रत्ययौ भवतः। तमबिष्ठनोरपवादौ। यथासङ्ख्यम् अत्र न इष्यते। द्वाविमावाढ्यौ, अयम् अनयोरतिशयेन आढ्यः आढ्यतरः। सुकुमारतरः। पचतितराम्। जल्पतितराम्। ईयसुन् खल्वपि द्वाविमौ पटू, अयम् अनयोरतिशयेन पटुः पटीयान्। विभज्ये च उपपदे माथुराः पाटलिपुत्रकेभ्य आढ्यतराः। दर्शनीयतराः। पटीयांसः। लघीयांसः।
TBD.
1225 द्वयोरेकस्यातिशये विभक्तव्ये चोपपदे सुप्तिङन्तादेतौ स्तः. पूर्वयोरपवादः. अयमनयोरतिशयेन लघुः लघुतरो लघीयान्. उदीच्याः प्राच्येभ्यः पटुतराः पटीयांसः..
द्विवचन। उच्यतेऽनेनेति वचनम्। द्वयोरर्थयोर्वचनं द्विवचनम्। द्व्यर्थप्रतिपादकमिति यावत्। न द्विवचनसंज्ञकमिह गृह्रते, व्याख्यानात् विभक्तव्यं–विभज्यम्। `ऋहलो'रिति ण्यतं बाधित्वा निपातनाद्यत्। द्विवचनं च विभज्यं चेति समाहारद्वन्द्वः। द्विवचनविभज्यं च तदुपपदं चेति कर्मधारयः। द्व्यर्थप्रतिपादके विभक्तव्यविषयके च उपपदे सतीति फलितम्। प्रातिपदिकादिति, तिङ इति चानुवर्तते। सुबन्तात्तद्धितोत्पत्तिरिति सिद्धान्तात्सुबन्तत्वं प्रातिपदिकविशेषणं लभ्यते। फलितमाह–द्वयोरेकस्येत्यादिना। द्वयोर्मध्ये अन्यतरापेक्षया अतिशयविशिष्टस्वार्थवृत्तेः, विभागप्रयोजकीभूतधर्मवाचकाच्च शब्दात्स्वार्थे तरबीयसुनौ स्त इति यावत्। यद्यप्यत्र द्वे सुबन्ततिङन्ते प्रकृती, द्वौ च प्रत्ययौ, तथापि न यथासङ्ख्यम्, व्याख्यानात्, अथ द्विवचनोपपदे उदाहरति– अयमनयोरिति। अत्र उपोच्चारितं पदम् उपपदम्, नतु कृत्रमं, तद्धितविधौ तदसंभवात्, धात्वधिकार एव तत्प्रवृत्तेरुक्तत्वात्। तच्चोपपदं विग्रहवाक्येऽवश्यं प्रयुज्यते। तद्धितवृत्तौ तु गतार्थत्वान्नवस्यकम्। लघीयानिति। ईयसुनि नकार इत्, उकार उच्चारणार्थः, उगित्त्वान्नुम्, `सान्ते'ति दीर्घः, हल्ङ्यादिसंयोगान्तलोपौ।\र्\नथ विभज्योपपदे उदाहरति–उदीच्याः प्राच्येभ्य इति। `पञ्चमी विभक्ते' इति पञ्चमी। द्विवचनसंज्ञकग्रहणे तु `दन्ताः स्निग्धतराः' इति न सिध्येत्। `बहुषु पुत्रेषु एतदुपपन्नं भवति अयं मे ज्येष्ठोऽयं मे मध्यमः, अयं मे कनीया'निति आद्यन्तवत्सूत्रस्थबाष्यप्रयोगात्, `नैर्देशिकानां वार्ततरका' इति `तस्मिन्' इति सूत्रभाष्यप्रयोगाच्च अद्वयर्थोपपदेऽपि तरबीयसुनावित्याहुः।
1501 द्विवचनविभज्योपपदे। द्वयोरर्थयोर्वचनं—द्विवचनम्। करणे ल्युट्। कर्मणि षष्ठ\उfffदा समासः। येन पदेन द्वावर्थावुच्येते तद्द्विवचनम्। विभक्तव्यं=विभज्यम्। `ऋहलो'दिति ण्यति प्राप्ते तदपवादो यत् निपात्यते। ण्यति तु `चजो'रिति कुत्वेन विभाग्यमिति स्यात्। विभाज्यशब्दस्य स्मृतिषु प्रयुक्तस्य साधुत्वं चिन्त्यमिति हरदत्तोक्तिश्चिन्त्या। ण्यन्तात् `अयो य'दिति यति विभाज्यमिति रूपसिद्धेः। न चात्राऽर्थबेदः शङ्क्यः, `नुवृत्तप्रेषणाद्धातोः प्राकृतेऽर्थे णिच'इति `णेरणौ'इति सूत्रे व्युत्पादनादिति दिक्। द्विवचनं च विभज्यं चेति द्वन्द्वः। तस्य उपपदेन कर्मधारयः। तथा च व्द्यर्थवाचके विभजनीये चोपपदे सतीत्यक्षरार्थः। `द्विवचनान्ते उपपदे'इति व्याख्यायां तु `दन्तोष्ठस्य दन्ताः स्निग्धतराः 'इत्यादि न सिध्यति। नच `द्वयोर्वचनं द्विवचन'मिति पक्षेऽपि नेदं सिध्यति, समाहारस्यैकत्वात्, गुणभूतवर्तिपदार्थश्रयमे तु द्वातिं?रशद्दन्ताः तु द्वातिं?रशद्दन्ताः , द्वावोष्ठाविति तेषां बहुत्वात्सुतरां न सिध्येदिति चेत्। अत्राहुः—-वृत्ताभेदैकत्वसङ्ख्यामुपपाददति वर्तिपदानि। ततश्च ऊभेदस्य परित्यागादभेदैकत्वं , सङ्ख्यायाश्चोपादानाद्दन्तोष्ठलक्षणार्थद्वयं दन्तोष्ठशब्देनोच्यत इति नास्ति द्वयोर्वचनं द्विवचनमित्येतदर्थकद्विवचनोपपदे इति पक्षे दोष इति। विस्तरस्त्तवाकरग्रन्तेब्योऽवगन्तव्यः। अन्वर्थं चोपपदम्,—– उपोच्चारितं पदमिति, न तु कृत्रिमम्। तद्धितविधौ तस्याऽसंभवात्। तच्च विग्रहवाक्य एव प्रयुज्यते। वृत्तौ तु गतार्थत्वान्नावश्यकम्। एवं स्थिते उपपदग्रहणं स्पष्टार्थम्। इह द्वे उपपदे, द्वे च प्रकृती सुबन्ततिङन्तरूपे, द्वौ च प्रत्ययौ, तथापि यथासङ्ख्यं नेष्यते। द्विवचनोपपदमुदाहरति—-अनयोरिति। लघीयामिति। `टे'रिति लोपः। उगित्त्वान्नुम्। `सान्तमहतः'इति दीर्घः। हल्ड\उfffदादिसंयोगान्तलोपौ। विभज्योपपदमुदाहरति—प्राच्येभ्य इति। `पञ्चमी विभक्ते'इति पञ्चमी। कथं तर्हि `परुद्भवान् पटुरासीत्, ऐषमस्तु पटुतरः'इति ?। अत्राहुः—-एकस्यापि धर्मिणस्तत्कालस्थत्वादिरूपधर्मभेदेन भेदाध्यारोपात्प्रतियोग्यपेक्षस्तत्कालस्थप्रकर्षःष तदाश्रयश्चेह तपप्प्रत्यय इति। व्यपदिशन्ति च—-`अन्य एवासि संवृत्तः', `कच्चित्स एवासि धनञ्जयस्त्वम्'इति।
TBD.