Table of Contents

<<8-3-36 —- 8-3-38>>

8-3-37 कुप्वोः ≍क≍पौ च

प्रथमावृत्तिः

TBD.

काशिका

कवर्गपवर्गयोः परतो विसर्जनीयस्य यथासङ्ख्यम् \उ1ए96क\उ1ए2ब्प इत्येतावादेशौ भवतः, चकाराद् विसर्जनीयश्च। वृक्ष\उ1ए96 करोति, वृक्षः करोति। वृक्ष\उ1ए96 खनति, वृक्षः खनति। वृक्ष\उ1ए2ब् पचति, वृक्षः पचति। वृक्ष\उ1ए2ब् फलति, वृक्षः फलति। कपौ उच्चारणार्थौ। जिह्वामूलीयोपध्मानीयौ एतावादेशौ। विसर्जनीयस्य सः 8-3-34 इत्येतस्मिन्नाप्राप्ते इदम् आरभ्यते इति एतस्य बाधकम्, शर्परे विसर्जनीयः 8-3-35 इत्येतत् तु न बाध्यते, वासः क्षौमम्, अद्भिः प्सातम्। पूर्वत्रासिद्धे नास्ति विप्रतिषेधो ऽभावादुत्तरस्य इति शर्परे विसर्जनीयः 8-3-35 इत्येतदेव भवति। केचित् तु एतदर्थं योगविभागं कुर्वन्ति। कुप्वोः शर्परयोः विसर्जनीयस्य विसर्जनीयः आदेशो भवति, किमर्थम् इदम्, \उ1ए96क\उ1ए2ब्पौ च इति वक्ष्यति, तद्वाधनार्थम् इति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

98 कवर्गे पवर्गे च विसर्गस्य एक एपौ स्तः, चाद्विसर्गः. नॄं पाहि, नॄंः पाहि, नॄंः पाहि. नॄन् पाहि..

बालमनोरमा

141 `खरवसानयो'रिति रेफस्य नित्यं विसर्गे प्राप्ते-कुप्वौ ><क><पौ च। `कुप्वोः' इति छेदः। ओसस्सस्य रुत्वे तस्य खर्परत्वाद्विसर्गः, जिह्वामूलीयस्य शर्पूपसङ्ख्यातत्वेन खत्र्वात्। तस्य च विसर्गस्य `खर्परे शरि वा विसर्गलोपो वक्तव्य' इति लोपः। अतः सूत्रे कुप्वोरिति विसर्गो न श्रूयते। `विसर्जनीयस्य स' इत्यतो विसर्जनीयस्येत्यनुवर्तते। तदाह-कवर्गे इत्यादिना। `क्रमा'दिति यथासंख्यसूत्रलभ्यम्। चाद्विसर्ग इति `शर्परे विसर्जनीयः' इत्यतो `विसर्जनीय' इत्यनुकृष्यत इत्यर्थः। चकारः पक्षे विसर्गसमुच्चयार्थ इति यावत्। अन्यथा जिह्वामूलीयोलपध्मानीयाभ्यां विसर्गस्य बाध एव स्यादिति भावः। एवं च प्रकृते पकारे परे विसर्गस्य सत्वं बाधित्वा कदाचिदुपध्मानीयः कदाचिद्विसर्गः। तयोरुच्चारणे भेदः। इहादेशयोः कपावुच्चारणार्थौ, न तु विधेयकोटिप्रविष्टौ। जिह्लामूलीयोपध्मानीयविसर्गविधना यथा विसर्जनीयस्य सत्वं बाध्यते, तथा `शर्परे विसर्जनीय' इति केवलविसर्गविधिरपि बाध्येत। तथाच वासः क्षौममित्यत्रापि कुप्वोरिति कदाचिज्जिह्वामूलीयः कदाचिद्विसर्गश्च स्याताम्। इष्यते तु केलविसर्ग इत्यत आह– येन नाप्राप्तीति। `येन नाप्राप्ते यो विधिरारभ्यते स तस्यापवादः' इति न्यायः। प्रापेति भावे क्तः। येनेति कर्तरि तृतीया। कर्तृकर्मणोरिति षष्ठी तु न भवति, `न लोके'ति निषेधात्। द्वौ नञावावश्यकत्वं द्योतयतः। यस्य विधेरवश्यं प्राप्तौ सत्यामित्यर्थः। अनेन न्यायेन कुप्वोरिति विधिः `विसर्जनीयस्य स' इत्यस्यैपवादः। सत्वे प्राप्त एव तदारम्भात्। `शर्परे विसर्जनीय' इत्यस्य तु कुप्वोरिति नापवादः। `कः करोती'त्यादौ शर्परे खरीत्यप्राप्तेऽपि कुप्वोरित्यस्यारम्भादित्यर्थः। तेनेति। `वासः क्षौम'मित्यादौ कुप्वोरिति विधिना शर्परे इत्यस्य बाधाऽभावेन शर्परे खरीति केवलविसर्ग एव भवतीत्यर्थ। नृ?#ँ><पाहिं, नृ?#ं><पाहीत्युपध्मानीयपक्षे आनुनासिक्येऽनुस्वारे च सति रूपद्वयम्। नृ?#ँ:पाहि,नृ?#ँ:पाहीति विसर्गपक्षेऽनुनासिकानुस्वाराभ्यां रूपद्वयम्। नृ?न्-पाहीति रुत्वाऽभावे रूपम्। तथाच पञ्च रूपाणि। सूत्रे `पे' इत्यकार उच्चारणार्थः। तथाच नृ?न्रुनातीत्यादावपि पञ्च रूपाणि भवन्ति।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

23) कुप्वोः ≍क ≍पौ च 8-3-37

वृत्ति: कवर्गपवर्गयोः परतो विसर्जनीयस्य यथासंख्यं ≍क ≍प इत्येतावादेशौ भवतः चकाराद् विसर्जनीयश्च। When the विसर्गः is followed by a letter of the “क” class or “प” class then it is replaced respectively by “≍क” and “≍प”। Optionally it can also stay as a विसर्गः। The technical name for the “≍क” is जिह्वामूलीयः and for the “≍प” is उपध्मानीयः।

गीतासु उदाहरणम् – श्लोकः bg1-1

मामकास् + पाण्डवाः = मामकारुँ + पाण्डवाः 8-2-66 = मामकार् + पाण्डवाः 1-3-2, 1-3-9 = मामकाः + पाण्डवाः 8-3-15

OR

मामकास् + पाण्डवाः = मामकारुँ + पाण्डवाः 8-2-66 = मामकार् + पाण्डवाः 1-3-2, 1-3-9 = मामकाः + पाण्डवाः 8-3-15 = मामका ≍ पाण्डवाः 8-3-37

गीतासु द्वितीयम् उदाहरणम् – श्लोकः bg12-13

मैत्रस् + करुण: = मैत्ररुँ + करुण: 8-2-66 = मैत्रर् + करुण: 1-3-2, 1-3-9 = मैत्रः + करुण: 8-3-15

OR

मैत्रस् + करुण: = मैत्ररुँ + करुण: 8-2-66 = मैत्रर् + करुण: 1-3-2, 1-3-9 = मैत्रः + करुण: 8-3-15 = मैत्र ≍ करुण: 8-3-37