TBD.
शर्परे खरि परतो विसर्जनीयस्य विसर्जनीयादेशो भवति। शशः क्षुरम्। पुरुषः क्षुरम्। अद्भि प्सातम्। वासः क्षौमम्। पुरुषः त्सरुः। घनाघनः क्षोभणश्चर्षणीनाम्। न इति वक्तव्ये विसर्जनीयस्य विसर्जनीयादेशविधानं विकारनिवृत्त्यर्थम्, तेन जिह्वमूलीयोपध्मनीयौ न भवतः।
TBD.
–
–
122 शर्परे विसर्जनीयः। `शर्परे' इति बहुव्रीहिः। अनुवर्तमानश्च खरन्यपदार्थः। सत्वादेरयमपवादः। यदि तु `शर्परे ने'त्यवोच्येत तर्हि प्रकृते सत्वे निषिद्धेऽपि कुप्वोः क पौ स्याताम् `वासः क्षौममद्भिः प्सात'-मित्यादौ। विसर्जनीयवचनात्तु विकारमात्रं बाध्यते इत्याशयेनाह -न त्वन्यदिति। तदेव स्फुटयति-इहेति।
86) शर्परे विसर्जनीय: 8-3-35
वृत्ति: शर्परे खरि परत: विसर्जनीयस्य विसर्जनीयादेशो भवति । When a खर्+शर् conjunct follows a विसर्ग: then the विसर्ग: is replaced by a विसर्ग: itself. This implies that no other operation is allowed. The विसर्ग: has to be completely pronounced. So it sounds as if there is a विराम: (full stop) after the विसर्ग: Note: The most common example of a खर्+शर् conjunct is क्ष्
गीतासु उदाहरणम् – श्लोकः bg5-25
ऋषयस् क्षीणकल्मषा: = ऋषय: क्षीणकल्मषा: 8-2-66, 8-3-15 = ऋषय: क्षीणकल्मषा: which is pronounced like ऋषय: | क्षीणकल्मषा: