TBD.
ह्रस्वात् परः यो ङम् तदन्तात् पदातुत्तरस्य अचः ङमुडागमो भवति नित्यम्। ङणनेभ्यो यथासङ्ख्यं ङणना भवन्ति। ङकारान्तात् ङुट् प्रत्यङ्ङास्ते। णकारान्तात् णुट् वण्णास्ते। वण्णवोचत्। नकारान्तात् नुट् कुर्वन्नास्ते। कुर्वन्नवोचत्। कृषन्नास्ते। कृषन्नवोचत्। ङमः इति किम्? त्वमास्से। ह्रस्वातिति किम्? प्राङास्ते। भवानास्ते। अचि इति किम्? प्रत्यङ् करोति। इह परमदण्डिनौ, परमदण्दिना इति उत्तरपदत्वे चापदादिविधौ इति प्रत्ययलक्षणप्रतिषेधादुत्तरपदस्य पदत्वं न अस्ति इति ङमुट् न भवति। अथ वा, उञि च पदे 8-3-21 इत्यतः सप्तम्यन्तं पदे इत्यनुवर्वते। तेन अजादौ पदे ङमुट् भवति।
TBD.
89 ह्रस्वात्परे यो ङम् तदन्तं यत्पदं तस्मात्परस्याचो ङमुट्. प्रत्यङ्ङात्मा. सुगण्णीशः. सन्नच्युतः..
–
107 ङमो ह्यस्वात्। ङम् प्रत्याहारः, संज्ञायां च कृतं टित्त्वं सामथ्र्यात्संज्ञिभिः संबध्यते। तेन यथासङ्ख्यं ङुट्-णुट्-नुटः प्रवर्तन्ते। नित्यग्रहणं विस्पष्टार्थं, `हे मपरे' इति `मय उञो वे'ति च विकल्पद्वयस्य मध्ये पाठादेव नित्यत्व लाभात्। नन्विह नित्यग्रहणाऽभावे `हे मपरे वे'ति वाग्रहणमुत्तरसूत्रेषु पञ्चस्वप्यनुवर्तते वा न वेति शङ्का स्यादिति चेत्सत्यम्। अतएव `विस्पष्टार्थ'मित्युक्तं न तु व्यर्थमिति। तस्मात्परस्याऽच इति। ननु `ङम' इत्यस्य षष्ठ\उfffद्न्ततामाश्रित्याऽचि परे पूर्वस्यैव विधीयतां को दोष इति चेन्मैवम्, तथाहि सति ङमन्तस्य पदस्य पूर्वावयवः स्यादित्यनिष्टं प्रसज्येत। `पदस्य यो ङम् तस्ये'ति वैयधिकरण्येन व्याख्यायामपि `कुर्वन्नास्ते' इत्यत्र णत्वं प्रसज्येत, `पदान्तस्ये'ति निषेधस्याऽप्रवृत्तेः। यद्यपि बहिरङ्गपरिभाषया ङमुड्विधेरसिद्धत्वादिष्टं सिध्यति, तथापि यथोद्देशपक्षे त्रैपादिकेऽन्तरङ्गे बहिरङ्गपरिभाषाया अप्रवृत्तेः प्रसज्यत एव णत्वमिति यथोक्तव्याख्यानमेव सांध्विति दिक्। सुगण्णीश इति। ण्यल्लोपौ न स्थानिवत्, पूर्वत्रासिद्धे तन्निषेधात्। ननु `परमदण्डिना'वित्यादावन्तर्वर्तिविभक्तया पदत्वान्नुट् स्यादिति चेन्न; `उत्तरपदत्वे चापदादिविधौ' इति प्रत्ययलक्षणप्रतिषेधात्। अतएव परमवाचौ' `परमगौदुहौ' `परमलिहा'वित्यादौ कुत्वघत्वनत्वादीनि न। प्राचा तु `उञि च पदे' इत्यतः `पदे' इत्यनुवर्त्त्य `अजादेः पदस्ये'ति व्याख्यानान्ङमुण्नेत्युक्तं, तदनेन प्रत्युक्तम्। इहैव नलोपं वारयितुमुक्तरीतेरेव तेनाऽप्यनुसर्तव्यत्वात्।
27) ङमो ह्रस्वादचि ङमुण् नित्यम् 8-3-32
वृत्ति: ह्रस्वात् परो यो ङम् तदन्तात् पदादुत्तरस्याचो ङमुडागमो भवति नित्यम् । When there is a ङम् letter at the end of a पदम् and this ङम् letter is preceded by a short vowel, then the following vowel (long or short) always gets the augment ङमुँट्।
गीतासु उदाहरणम् – श्लोकः bg5-7
कुर्वन् + अपि = कुर्वन् + न् + अपि (1-1-46) = कुर्वन्नपि