Table of Contents

<<8-3-30 —- 8-3-32>>

8-3-31 शि तुक्

प्रथमावृत्तिः

TBD.

काशिका

नकारस्य पदन्तस्य शकारे परतो वा तुगागमो भवति। भवाञ्च्छेते। पूर्वान्तकरणं छत्वार्थम्। यद्येवं कुर्वज्च्छेते इत्यत्र नकारस्य अपदान्तत्वात् णत्वं प्राप्नोति? तत्र समधिमाहुः, स्तोः श्चुना श्चुः 8-4-40 इत्यत्र योगविभागः क्रियते, णत्वप्रतिषेधार्थं स्तोः श्चुना णकारो न भवति इति, ततः श्चुः इति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

88 पदान्तस्य नस्य शे परे तुग्वा. सञ्छम्भुः, सञ्च्छम्भुः, सञ्च्शम्भुः, सञ्शम्भुः..

बालमनोरमा

133 शि तुक्। पूर्वसूत्रात् `न' इति पञ्चम्यन्तमनुवृत्तमिह षष्ठ\उfffद्न्तमाश्रीयते, शब्दाधिकाराश्रयणात्। पदस्ये'त्यधिकृतम्। अवयवषष्ठ\उfffद्न्तमाश्रीयते। `हे मपरे वे'त्यतो `वे'त्यनुवृत्तं। तदाह- पदान्तस्येति। `नान्तस्य पदस्ये'त्युचितम्। उकार उच्चारणार्थः। `सन् शम्भु'रिति स्थिते नकारस्यान्तावयवस्तुक्। ननु तुग्ग्रहणं व्यर्थं, डः सि धुडित्यतो धुडेवानुवर्त्त्य नकारात्परस्य शस्य विधीयतां। खरि चेति चर्त्वे सन्?त्?शम्भुरित्यस्य सिद्धेरित्यत आह–शश्छोऽटीति छत्वविकल्प इति। `शकारस्ये'ति शेषः। धुटो विधौ तु तस्य परादित्वात्पदान्तत्वाऽभावाच्छत्वं न स्यात्, छत्वविधेः पदादिकारस्थत्वेन पदान्ताज्झयः परस्यैव शश्य तत्प्रवृत्तेर्भाष्ये सिद्धान्तितत्वात्। अन्यथा विसृपो विरफ्?शिन्नित्यांदावपि शस्य छत्वापत्तेः। पक्ष #इति। कदाचिज्झरो झरीति तुकस्तकारस्य श्चुत्वमापन्नस्य लोप इत्यर्थः। सञ्छम्भुरिति। तकारस्य चुत्वमापन्नस्य लोपे सति नकारस्य श्चुत्वेन ञकारे रूपम्। सञ्च्छम्भुरिति। चुत्वमापन्नस्य तकारस्च लोपाभावे नकारस्य च श्चुत्वे ञकारे रूपम्। तुको जश्त्वं तु न, जश्त्वं प्रति तस्यासिद्धत्वात्। अत एव श्चुत्वोत्तरमपि जश्त्वं न। सञ्च्शम्भुरिति। शस्य छत्वाभावे तकारनकारयोश्चुत्वे च रूपम्।

श्लोकेन संगृह्णाति–ञछाविति। तुक्?छत्वचलोपानां विकल्पनात्-ञछौ ञचछा ञचशा ञशाविति रूपाणां चतुष्टयमित्यन्वयः। पञ्चम्यन्तम्। तद्विशेषणत्वात् पदस्येत्यधिकृतं पञ्चम्यन्ततया विपरिणम्यते। `ङम' इति च `ह्यस्वा'दिति विशेषणसम्बन्धमनुभूय पदविशेषणत्वं भजत्तदन्तपरम्। `ङम' इति पञ्चमी बलादचीति सप्तमी षष्ठ\उfffद्र्थे। तदाह–ह्यस्वात्पर इति। ङमुडागम इति। टकार इत्। उकार उच्चारणार्थः। संज्ञायां कृतं टित्त्वमानर्थक्यात्तदङ्गन्यायात्संज्ञिभिः सम्बध्यते। ततश्च ङुट् णुट् नुडिति त्रय आगमाः फलिताः। टित्त्वादच आद्यवयवा यथासङ्ख्यं प्रवर्तन्ते। `हे मपरे वे'ति वाग्रहणानुवृत्तिशङ्काव्युदासार्थं नित्यग्रहणम्। प्रत्यङ्?ङात्मेति। प्रत्यङ्- आत्मा इति स्थिते आकारात्प्राक् ङुट्। सुगण्णीश इति। `गण संख्याने' चुरादिः। ण्यन्ताद्विचि णिलोपः। नतु क्विप्। `अनुनासिकस्य क्वी'ति दीर्घप्रसङ्गात्। ङमुटि कर्तव्ये णिलोपस्तु न स्थानिवत्, `पूर्वत्रासिद्धे न स्थानिव'दित्युक्तेः। सुगण्- ईश इति स्थिते ईकारात्प्राक् णुट्। सन्नच्युत इति। सन्-अच्युत इति स्थिते अकारात्प्राक् नुट्। नच परमदण्डिनावित्यत्र परमदण्डिन्-औ इति स्थिते प्रत्ययलक्षणेनाऽन्तर्वतिर्विभक्त्या पदत्वान्नुट् स्यादिति वाच्यम्, `उत्तरपदत्वे' चापदादिविधा'विति प्रत्ययलक्षणप्रतिषेधात्। वस्तुतस्तु उत्तरपदत्वे चेति प्रत्ययलक्षणप्रतिषेधो यत्रोत्तरपदस्य कार्यित्वं तत्रैव प्रवर्तते। अन्यथा `पदव्यवायेऽपी'ति निषेधो `माषकुम्भवानपेने'त्यत्र न स्यात्। अतः परमदण्डिनौ इत्यत्र ङमुड्वारणाय `उञि च वदे' इत्यतः पदे इत्यनुवत्र्याऽजादेः पदस्य ङमुडिति व्याख्येयमिति शब्देन्दुशेखरे प्रपञ्चितम्।

तत्त्वबोधिनी

106 शि तुक्। `शी'ति सप्तमी पूर्वत्र कृतार्थाया `न' इति पञ्चम्याः षष्ठीं कल्पयतीत्याह–नस्येति। चलोप इति। `झरो झरी'त्यत्र सवर्णग्रहणसामथ्र्याद्यथासङ्ख्यं न प्रवर्तत इति भावः। सञ्छम्भुरिति। इह श्चुत्वतुकोरसिद्धत्वमाश्रित्य `नश्छवी'ति रुत्वं नाशङ्क्यं, छत्वस्याऽसिद्धत्वात्। चतुष्टयमिति। अत्र तुकः श्चुत्वे `चयो द्वितीयाः' इति पक्षे चस्य छत्वे शस्यापि छत्वविकल्पात्सञ्छ्?छम्भुः शञ्छ्शम्भुरिति रूपद्वयवृद्धिर्वोध्या। न च शस्य छत्वपक्षे शर्परत्वाऽभावात् `चयो द्वितीयाः-' इति पक्षे चस्य छो निति शङ्क्यम्, `शश्छोऽटी'ति छत्वस्याऽसिद्धत्वादित्याहुः। चतुष्टयम्।

Satishji's सूत्र-सूचिः

TBD.