Table of Contents

<<8-3-32 —- 8-3-34>>

8-3-33 मय उञो वो वा

प्रथमावृत्तिः

TBD.

काशिका

मय उत्तरस्य उञो वा वकारादेशो भवति अचि परतः। शंवस्तु वेदिः, शमु अस्तु वेदिः। तद्वस्य परेतः, तदु अस्य परेतः। किंवावपनम्, किमु आवपनम्। प्रगृह्यत्वातुञः प्रकृतिभावे प्राप्ते वकारो विधीयते। तस्य असिद्धत्वाद् हलि इति मो ऽनुस्वारः 8-3-23 न भवति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

58 मयः परस्य उञो वो वाचि. किम्वुक्तम्, किमु उक्तम्..

बालमनोरमा

109 इत्यतोऽचीत्युवर्तते, तदाह–मयः परस्येति। किम्वुक्तमिति। `किमु उक्त'मिति स्थिते मकारोत्तरोकारस्य उञो `निपात एकाच्' इति नित्यं प्रगृह्रत्वात्प्रकृतिभावाद्यणभावे प्राप्ते वत्ववचनमिदम्। ननु तर्हीको यणचीत्यनन्तरमेव `मय उञो वे'ति पठितव्यं, वग्रहणाऽभावेन लाघवात्। त्रिपाद्यां पाठे वग्रहणस्यापि कर्तव्यत्वेन गोरवादित्यत आह–वत्वस्येति। यदि षष्ठस्य प्रथमे पादे इको यणचीत्यत्रैव मय उञो यणादेशविकल्पो विधीयेत,तर्हि किम्वुक्तमित्यत्र `मोऽनुस्वार' इति मकारस्य वकारे परेऽनुस्वारः स्यात्। त्रिपाद्यां वत्वविधौ तु तस्याऽसिद्धत्वान्नानुस्वारः। त्रिपाद्यामनुस्वारविध्यपेक्षया वत्वविधेः परत्वादिति भावः।

तत्त्वबोधिनी

89 `प्रगृह्र'मित्यनुवर्तनादाह–प्रगृह्रश्चेति। ननु दीर्घोच्चारणसामथ्र्यादेव प्रकृतिभावासिद्धौ किमनेन प्रगृह्रत्वेनेति चेदत्राहुः- प्रगृह्राप्रगृह्रयोद्र्वयोरप्युञोरादेशापत्तौ प्रगृह्रादेशे प्रकृतिभावादिष्टसिद्धावपि अप्रगृह्रादेशस्याऽनुनासिको वकारः स्यात्तद्वारणाय प्रगृह्रत्वाश्रयणमिति। आदेशस्यास्य स्थानिवत्त्वेनोञ्त्वादुञ इति प्रगृह्रत्वविकल्पे प्राप्ते नित्यार्थं तदाश्रयणमित्यन्ये। यदि तु `प्रगृह्र'मित्यस्य स्थानिविशेषणत्वं स्वीकृत्य `प्रगृह्रस्योञः ऊँ इत्यमादेशः' इति व्याख्यायते, तदा दीर्घानुनासिकोक्तिवत्प्रगृह्रश्चेत्युक्तिरपि स्वरूपकथनमेवेति बोध्यम्। ऊँ इत्यत्र यदि शाकल्यस्येति नापेक्ष्यते, तदा प्रगृह्रस्योञो नित्यमादेशः स्यात्ततश्च `विति' `ऊँ अत् ' एते द्वे रूपे स्याताम्, तस्माच्छाकल्यग्रहणानुवृत्त्या आदेशविकल्पे सिद्धे त्रीणि रूपाणि सिध्यन्तीति कैयटस्तदाह–अयमादेषो वा स्यादिति। व(त्व)स्यासिद्धत्वादिति। अत एवेदं त्रिपाद्यां विधीयते। प्रकृतिभावमात्रबाधनार्थत्वे हि `इको य'णित्यनन्तरं `मय उञो वे'त्येवावक्ष्यत्, यणं चाऽन्ववर्तयिष्यत्।

Satishji's सूत्र-सूचिः

TBD.