Table of Contents

<<8-3-26 —- 8-3-28>>

8-3-27 नपरे नः

प्रथमावृत्तिः

TBD.

काशिका

नकारपरे हे परतः मकारस्य वा नकारादेशः भवति। किन् ह्नुते, किं ह्नुते। कथन् ह्नुते, कथं ह्नुते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

83 नपरे हकारे मस्य नो वा. किन् ह्नुते, किं ह्नुते..

बालमनोरमा

129 नपरे नः। `हे' इति `वे'-ति `म' इति चानुवर्तते। नः परो यस्मादिति विग्रहः। तदाह–नपरे इति। किन्ह्नुते इति। `ह्नुङ्-अपनयने' मस्य नत्वे रूपम्। तदभावे मोऽनुस्वारः।

तत्त्वबोधिनी

103 नपरे। अयमपि बहुव्रीहिरेव। `हे' इति त्वनुवर्तते, तदाह–नपरे हकारे इति।

Satishji's सूत्र-सूचिः

TBD.