TBD.
ढकारस्य ढकारे लोपो भवति। सत्यपि पदाधिकारे तस्य असम्भवादपदान्तस्य ढकारस्य अयं लोपो विज्ञायते। लीढम्। मीढम् । उपागूढम्। ष्टुत्वस्य अत्र सिद्धत्वमाश्रयाद् द्रष्टव्यम्। श्वलिड् ढौकते इत्यत्र तु जश्त्वे कृते कार्यी न अस्ति इति लोपाभावः। न च ढलोपो जश्त्वापवादो विज्ञातुं शक्यते, तस्य हि लीढादिः विषयः सम्भवति। तत्र हि श्रुतिकृतमानन्तर्यम् अस्ति। शास्त्रकृतं तु यदनानन्तर्यं ष्टुत्वस्य असिद्धत्वेन प्राप्तम्, तत् तु सूत्रकरणसामर्थ्याद् बाध्यते। श्वलिड् ढौकते इत्यत्र तु न श्रुतिकृतमानन्तर्यम्, न शास्त्रकृतम् इति अविषयोऽयं ढलोपस्य।
TBD.
552
174 इडभावे तु गाह् ता इति स्थिते हस्य ढत्वे ‘झषस्तथोर्धोऽधः’ इति तकारस्य धत्वे, ष्टुत्वेन धस्य ढत्वे, गाढ्–ढा इति स्थिते– इडभावे तु गाह् ता इति स्थिते ढो ढे। ‘ढः’ इति षष्ठ्यन्तम्। तदाह–ढस्येति। ढकारस्येत्यर्थः। इति पूर्वस्य ढकारस्य लोपे ‘गाढा’ इति रूपम्। ढलोपे ष्टुत्वस्याऽसिद्धत्वं तु न, तथा सति ढलोपविधिवैयर्थ्यात्। घाक्ष्यते इति। इडभावे हस्य ढः, गस्य भष् घकारः, ढस्य कः, सस्य ष इति भावः। अगाहिष्टेति। सिच इट्, सस्य षः, तकारस्य ष्टुत्वेन टः। इडभावे त्वाह– अगाढेति। अगाह् स् त इति स्थिते सिच इडभावे ‘झलो झली’ति लोपः। ढत्वधत्वष्टुत्वढलोपः। सलोपात्पूर्वं भष्भावस्तु न, भष्भावस्याऽसिद्धतया ‘झलो झली’ति सलोपस्य पूर्वं प्रवृत्तेः। न च कृतेऽपि सलोपे प्रत्ययलक्षणेन सकारपरकत्वात् भष् दुर्वार इति शङ्क्यं, वर्णाश्रये प्रत्ययलक्षणाऽभावादिति भावः। अधाक्षातामिति। इडभावपक्षे ढघकषाः। अघाक्षतेति। पूर्ववत्। अगाढा इति। थास् सिच्। इडभावे सलोपः। ढत्वधत्वष्टुत्वढलोपाः। अघाढ्वमिति। ध्वमि इडभावपक्षे सलोपः। ढत्वघत्वष्टुत्वढलोपाः। ध्ममाश्रित्य ढलोपात्पूर्वं भष्भावः। अघाक्षीति। इडभावे हस्य ढः, भष्भावः, ढस्य कः, सस्य षत्वमिति भाव-। अघाक्ष्वहि। अघाक्ष्महि। अगाहिष्यत अघाक्ष्यत। गृहूधातुरूदित् ऋदुपधः। गर्हते इति। लटस्तिपि शपि लघूपधगुणे रपरत्वम्। जगृहे इति। ‘असंयोगा’दिति कित्त्वाद्गुणाऽभावः। न च कित्त्वात् परत्वाद्गुणः शङ्क्यः , ‘ऋदुपधेभ्यो लिट कित्त्वं गुणात्पूर्वप्रतिषेधेने’ति वार्तिकादिति भावः। ऊदित्त्वादिड्विकल्पं मत्वा आह– जगृहिषे जघृक्षे इति। अभ्यासे उरदत्वं, हलादिः शेषः, जश्त्वम्, इट्, षत्वम्। इडभावे तु ढत्वभष्भावकत्वषत्वानि। ध्वमि जगृहिध्वे इति सिद्धवत्कृत्य इडभावे आह–जघृढ्वे इति। हस्य ढः, भष्भावष्टुत्वढलोपाः। गर्ढेति। इडभावे गुणे रपरत्वे ढत्वधत्वष्टुत्वलोपाः। घक्ष्र्यते इति। गुणः, रपरत्वं, हस्य ढः, भष्भावः, ढस्य कः षत्वम्। अगर्हिष्टेति। सिच इटि गुणे रपरत्वे षत्वे रूपम्।
148 ढो ढे लोपः । जघाढ्वे । ढे किम्, ऊढः । इह पूर्वं ढलोपो माभूत् । कृते तु ढग्रहणे ‘ष्टुना ष्टुः’ इत्यस्य आश्रयात् सिद्धत्वं भवतीति सिद्धमिष्टमित्याहुः । अगाढेति। ‘झलो झली’ति सलोपः। ढत्वधत्वष्टुत्वढलोपाः। सिज्लोपात्पूर्वं भष्भावस्तु न, असिद्धतवात्। भष्भावस्तु सिज्लोपानन्तरमपि न बवति, सकारपरत्वाऽभावात्। न च कृतेऽपि सलोपे प्रत्ययलक्षमेन सिच्परत्वाद्भष्भावो दुर्वार इति शङ्यं, वर्णाश्रये प्रत्ययलक्षणाऽभावात्। अन्यथा गवे हितं गोहितमित्यत्राऽवादेशः स्यादिति दिक्। जगृहे इति। कित्त्वात्परत्वात् ‘पुगन्ते’ति गुणे प्राप्ते ‘ऋदुपधेभ्य’ इति वार्तिकात्कित्त्वे गुणाऽभावः।
391) ढो ढे लोपः 8-3-13
वृत्तिः ढकारस्य ढकारे परे लोप: स्यात्। A ढकारः is elided if followed by a ढकारः।
Note: The situation of a ढकार: followed by a ढकार: only arises after applying 8-4-41. So even though 8-3-13 is an earlier rule (compared to 8-4-41) in the त्रिपादी, it has to be allowed (in spite of 8-2-1) to see the operation done by 8-4-41, for otherwise 8-3-13 would become useless.
उदाहरणम् – लीढे (√लिह्, अदादि-गणः, लिहँ आस्वादने, धातु-पाठः #२. ६) लँट्, कर्तरि-प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
The इत् letter (अकार:) of the धातुः √लिह् has a स्वरित-स्वरः। Therefore, as per 1-3-72, this धातुः √लिह् can take either परस्मैपद-प्रत्यया: or आत्मनेपद-प्रत्यया:।
Let us consider the case when a आत्मनेपद-प्रत्यय: is used.
लिह् + लँट् 3-2-123 = लिह् + ल् 1-3-2, 1-3-3
= लिह् + त 3-4-78, 1-4-100, 1-4-101, 1-4-102, 1-4-108, त gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= लिह् + ते 3-4-79
= लिह् + शप् + ते 3-1-68, शप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= लिह् + ते 2-4-72 = लिढ् + ते 8-2-31
= लिढ् + धे 8-2-40
= लिढ् + ढे 8-4-41
= लि + ढे 8-3-13 (वचनसामर्थ्यात्)
= लीढे 6-3-111 (वचनसामर्थ्यात्)