Table of Contents

<<8-3-114 —- 8-3-116>>

8-3-115 सनोतेः स्यसनोः

प्रथमावृत्तिः

TBD.

काशिका

सुनोतेः सकारस्य मूर्धन्यदेशो न भवति स्ये सनि च परतः। अभिसोष्यति। परिसोष्यति। अभ्यसोष्यत्। पर्यसोष्यत्। सनि किम् उदाहरनम्? अभिसुसूषति। न एतदस्ति प्रयोजनम्, तत्र स्तौतिण्योरेव षण्यभ्यासात् 8-3-71 इति नियमात् न भविष्यति। इदं तर्हि, अभिसुसूषते? एतदपि न अस्ति, स्थादिष्वभ्यासेन च अभ्यासस्य 8-3-64 इति नियमात्। इदं तर्हि, अभिसुसूषतेः अप्रत्ययः अभिसुसूः इत्युदाहरनम् इति? अत्र हि सन्षभूतो न भवति इत्यभ्यासात् प्राप्तिरस्ति। स्यसनोः इति किम्? सुषाव।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

195 सोढः। `सोढ' इति सहेरोवत्वसंपन्नस्य षष्ठ\उfffद्न्तम्। `सहेः साडः सः' इत्यतः स इति षष्ठ\उfffद्न्तमनुवर्तते। `न रपरे'त्यतो नेति। `मूर्धन्य' इत्यधिकृतम्। तदाह–सोढ्?रूपस्येत्यादिना।

तत्त्वबोधिनी

168 षत्वं नेति। `न रपरे' ति सूत्रान्नेत्यनुवर्तत इति भावः।

Satishji's सूत्र-सूचिः

TBD.