Table of Contents

<<8-3-63 —- 8-3-65>>

8-3-64 स्वादिष्वभ्यासेन च अभ्यासस्य

प्रथमावृत्तिः

TBD.

काशिका

प्राक् सितातिति वर्तते। उपसर्गात् सुनोति इत्यत्र स्थासेनयसेध इति स्थादयः, तेसु स्थादिषु प्राक् सितसंशब्दनातभ्यासेन व्यवाये मूर्धन्यो भवति, अभ्याससकारस्य च भवति इत्येवं वेदितव्यम्। अभ्यासेन व्यवाये अषोपदेशार्थं च अभिषिषेणयिषति, परिषिषेणयिषति। अवर्णान्ताभ्यासार्थं च अभितष्टौ, परितष्टौ। षणि प्रतिषेधार्थं च अभिषिषिक्षति, परिषिषिक्षति। अभ्यासस्य इति वचनम् नियमार्थम्, स्थादिषु एव अभ्याससकारस्य् मूर्धन्यो भवति, न अन्यत्र। अभिसुसूषति। अभिसिषासति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

121 स्थादिषु। अभ्यासेनेति तृतीयान्तम्। प्राक्सितादित्यनुवर्तते। तदाह– - प्राक्सितादिति। `उपसर्गात्सुनोती'ति सूत्रे स्थाधातुमारभ्य `परिनिविभ्यः सेवसिते'त्यत्र सितशब्दात्प्राग्ये धातव उपात्तास्तेषु दशस्वित्यर्थः। निषिषेधेत्यादौ अभ्यासात्परस्य सस्य अभ्यासव्यवहत्वेन उपसर्गात्परत्वाऽभावादप्राप्तौ वचनम्। ननु निषिषेधेत्यादौ अभ्यासस्थसकारस्यौपसर्गादत्सुनोतीत्यनेनैव सिद्धत्वादभ्यासस्येति व्यर्थमित्याशङ्क्य नियमार्थमित्याह–एषामेवेति। अभ्यासस्थसकारस्य चेत्षत्वं तर्हि स्थादिदशानामेवेत्यर्थः। एवं च `षू प्रेरणे', अभिसुसूषत। अत्राभ्यासस्य न षत्वम्। अभ्यासात्परस्य तु सस्य स्तौतिण्योरेवेति नियमान्न षत्वम्।

तत्त्वबोधिनी

96 व्यवायेऽपि षत्वं स्यादेषामेव चेति। स्थदीनां दशानामेवभ्यासस्य षत्वमित्यर्थः। तत्फलं तु `षू प्रेरणे' अभिसुसूषति। अत्रोक्तनियमादभ्याससकारस्य न षत्वं, द्वितीयस्य तु `स्तौतिण्यो'रिति नियमान्न भवति। अभिसिषासतीत्यत्र तु षणोऽभावादभ्यासात्परस्य षत्वं, पूर्वस्य तूक्तनियमान्नेति बोध्यम्। स्यादेतत्– - निषिषेधेत्यादौ अभ्यासस्य `उपसर्गात्सुनोती'त्यनेन सिद्धम्, अभ्यासात्परस्य तु `आदेश प्रत्ययो'रित्यनेनेति किमाद्यावाक्येन ?। अत्राहुः–फलत्रयार्थमाद्यं वाक्यं। तथाहि अषोपदेशार्थम्– सेनया अभियातुमिच्छति अभिषिषेणयिषति। अवर्णान्ताभ्यासार्थं च–`अर्धासनं गोत्रभिदोऽधितष्ठौ'। षणि प्रतिप्रसवार्थ च- - अभिषिषिक्षति। `षिच क्षरणे'। `स्तोतिण्योरेवे'ति नियमात्षभूते सनि निवर्तितमपि सत्वमुपसर्गमाश्रित्याऽत्र भवतीति।

Satishji's सूत्र-सूचिः

TBD.