Table of Contents

<<8-3-70 —- 8-3-72>>

8-3-71 सिवादीनां वा अड्व्यवाये ऽपि

प्रथमावृत्तिः

TBD.

काशिका

अनन्तरसूत्रे सिवुसहसुट्स्तुस्वञ्जाम् इति सिवादयः। सिवादीनाम् अड्व्यवाये ऽपि परिनिविभ्यः उत्तरस्य सकारस्य वा मूर्धन्यो भवति। तथा चिअवोदाहृतम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

196 सिवादीनां। `परिनिविभ्य' इति सूत्रादुत्तरमिदं सूत्रम्। तदाह–परिनिविभ्यः परेषामिति। `सिवुसहसुट्स्तुस्वञ्जा'मिति शेषः। रमु इति। नाऽयमुदिदिति माधवः। केचित्तु उदितं मत्वा `उदितो वे'ति क्त्वायामिड्विकल्पमिच्छन्ति। अनिट्कोऽयम्। लिटि क्रादिनियमादिट्। तदाह–रेमिषे इति। अथ कसन्ता इति। `कस गतौ' इत्येतत्पर्यन्ता इत्यर्थः। षद्लृधातुः षोपदेशोऽनिट्कश्च।

तत्त्वबोधिनी

169 सिवादीनां। सिवुसहसुट्स्तुस्वञ्जः सिवादयः। पर्यषीव्यत्। पर्यसीव्यत्। पर्यष्करोत्। न्यष्टौत्। न्यस्तौत्। व्यष्वजत्। व्यस्वजत्। रम क्रीडायाम्। अमुमुदितं मत्वा रन्त्वा रमित्वेति केचिदुदाजह्युस्तन्माधवादयो न सहन्ते। तथा च क्त्वायां रन्त्वेत्येव साधु। रेमिषे इति। क्रादिनियमादिट्। पचाद्यचि टाप्। रमा। घञि तु – रामः। अमन्तत्वेन मित्त्वाण्णौ ह्यत्वः। रमयति। षद्लृ। विशरणमवयवानां विश्लेषः। अवसादनं– नाशः।

Satishji's सूत्र-सूचिः

TBD.