Table of Contents

<<8-3-115 —- 8-3-117>>

8-3-116 सदिष्वञ्जोः परस्य लिटि

प्रथमावृत्तिः

TBD.

काशिका

सदि ष्वञ्ज इत्येतयोः धात्वोः लिटि परतः सकारस्य परस्य मूर्धन्यः न भवति। अभिषसाद। परिषसाद। निषसाद। विषसाद। परिषस्वजे, परिषस्वजाते, परिषस्वजिरे। अभिषस्वजे। स्वञ्जेः संयोगान्तादपि विभाषा लिटः कित्त्वम् इच्छन्ति इति पक्षे ऽनुषङ्गलोपः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

408 स्तन्भुसिवु। `उपसर्गनिमित्तस्य प्रतिषेध' इति वार्तिकम्। ` न रपरसृपी'त्यतो नेत्यनुवर्तते। `सहे साडः सः' इत्यतः स इति षष्ठ\उfffद्न्तमनुवर्तते। `मूर्धन्य' इत्यधिकृतम्। तदाह – उपसर्गनिमित्त इत्यादि। स्तम्भुः सौत्रो धातुः। `षिवु ततन्तुसन्ताने' `षह मर्षणे' पर्यसीषिवत् न्यसीषहदिति। `परिनिविभ्यः सेवे'त्युपसर्गनिमित्तं षत्वं न। अभ्यासनिमित्तं तु षत्वं भवत्येव। आटिट्त आशिशदिति। आट् इ अ त्, आश् इ अ त् इति स्थिते `णौ चङी'त्युपधाह्यस्वात्प्रागन्तरङ्गत्वा`चङी'ति द्वित्वमाशङ्क्याह– बहिरङ्गोऽपीति। उपधाह्यस्वश्चङ्परण्यपेक्षत्वाद्बहिरङ्गः। द्वित्वं तु चङ्मात्रापेक्षत्वादन्तरङ्गम्। अथाऽपि द्वित्वात्प्रागेव उपधाह्यस्व इत्यर्थः। कुत इत्यत आह– ओणेरिति। `ओणृ अपनयने' इति धातोः ऋदित्करणम् औणिणदित्यत्र `\त्नोग्लोपी'ति उपधाह्यस्वप्रतिषेधार्थम्। यदि तु उपधाह्यस्वात्प्रागेव अन्तरङ्गत्वाद्द्वित्वं स्यात्तदा ओण् इ अ त् इत्यत्र `अजादेर्द्वितीयस्ये'ति णीत्यस्य णिचा सह द्वित्वे सति पश्चादोकारस्य चङ्परे णौ उपधात्वाऽभावादेव ह्यस्वस्याऽप्रसक्तत्वादृदित्करणं व्यर्थं स्यात्। `द्वित्वात्प्रागेव उपधाह्यस्व'इत्यभ्युपगमे तु ओण् इ अ त् इत्यस्यामवस्थायां प्राप्तस्य ह्यस्वस्य निषेधार्थमृदित्करणमर्थवत्। अतो `बहिरङ्गोऽप्युपधाह्यस्वो द्वित्वात् प्रागेवे'ति विज्ञायते इत्यर्थः। ननु आटिटत् आशिशदिति सिध्यत्येवेति किमनेन ज्ञापनेनेत्यत आह- - मा भवानिदिधदिति। एध् इ अ त् इति स्थिते पूर्वं द्वित्वप्रवृत्तौ `धी'त्यस्य द्वित्वे पश्चादेकारस्य ह्यस्वो न स्यात्, द्वित्वात्प्रागेव उपधाह्यस्वे तु इध् इ अ त् इति स्थिते `धी'त्यस्य द्वित्वे माङ्योगादाडभावे इदिधदिति इष्टं सिध्यतीत्यर्थः। ननु मा भवान् प्रेदिधदित्यत्र प्र इदिधदिति स्थिते कृतेऽपि ह्यस्वे एकदेशविकृतन्यायेन एधधातुत्वात् `एत्येधत्यूठ्सु' इति वृद्धिः स्यादित्यत आह– एजादावेधताविति। `अवर्णादेजाद्योरेत्येधत्यो'रिति व्याख्यातत्वादिति भावः। औन्दिददिति। उन्द् इ अ त् इति स्थिते `दी'त्यस्य द्वित्वमिति भावः। आड्डिडदिति। अड्डधातुर्दोपधः। ष्टुत्वसंपन्नो डकारः। अड्डि अ त् इति स्थिते ष्टुत्वस्याऽसिद्धत्वेन दकारात्परस्य `डि'इत्यस्य द्वित्वमिति भावः। आर्चिददिति। अर्च् इ अ त् इति स्थिते रेफात् परस्य `ची'त्यस्य द्वित्वमिति भावः। उब्ज आर्जवे इति। ननु चङि `ब्जी'त्यस्य द्वित्वे हलादिशेष#ए औबिब्जदिति रूपं स्यात्। औब्जिजदित्येव द्वित्वमिति भावः। तर्हि दकारः कुतो न श्रुयते इत्यत आह- - भुजन्युब्जाविति। ननु द्वित्वात्प्रागन्तरङ्गत्वाद्दकारस्य बकारादेशे सति `न न्द्रा' इति निषेधस्य कथमिह प्रवृत्तिरित्यत आह– स चेति। ननु `द्रु गतौ' द्रावयति, चङि `द्रु'इत्यस्य द्वित्वे उत्तरखण्डस्य वृद्ध्यावादेशयोरुपधाह्यस्वे `रुआवतिशृणोती'त्यभ्यासस्य इत्त्वे अदिद्रवदिति इष्यते। तन्नोपपद्यते। `न न्द्राः' इति दकारस्य द्वित्वनिषेधादित्यत आह–अजादेरित्येवेति। `न न्द्राः' इत्यत्र अजादेरित्यनुवर्तत एवेत्यर्थः। `आदिभूतादचः' इति व्याख्यातं प्राक्। ततश्च आदिभूतादचः परा नदरा द्विर्न भवन्तीति फलितम्। नेहेति। प्रकृते आदिभूतादचः परत्वाऽभावान्न दकारद्वित्वनिषेध इत्यर्थः। `अदिद्रप'दिति पाठे द्राधातोर्णिचि पुकि `द्रापी'त्यस्माद्रूपम्। ननु `लावस्थायाम'डिति पक्षे अचः परत्वमस्त्येवेति चेन्न, `न न्द्राः' इत्यत्र `लिटि धातो'रित्तो धातोरित्यनुवर्त्त्य धातुसंज्ञाकालिकादादेरचः परा नदरा द्विर्नेति व्याख्यानादित्याहुः।

तत्त्वबोधिनी

357 स्तन्भुः सौत्रः। `षिवु तन्तुसंताने'। षह मर्षणे'। स्तन्भतेः `स्तन्भेः' इत्यनेन प्राप्तिरन्ययोस्तु `परिनिविभ्यः' इत्यनेनेति विवेः। आटिटत्। आशिशदिति। णिचा सह द्वित्वात्सन्वद्भावो नेति त्दविषये विहितो यो `दीर्घो लघो'रिति दीर्घः स न प्रवर्तते। ऋदित्करणाल्लिङ्गादिति। यदि पूर्वं द्विर्वचनं भवेत्तद। णिशब्दस्य द्वित्वे सत्युपधाह्यस्वस्याऽप्राप्तेस्तत्प्रतिषेधार्थमृदित्करणं व्यर्थं स्यादतस्तदुक्तेऽथ ज्ञापकमेव। एजादावेधताविति। `एत्येधत्यूठ्सु' इति सूत्रे `एजाद्योरेत्येधत्यो'रिति व्याख्यातत्वादिति भावः। न च मा भवान्प्रेदिधदित्यत्र `णौ चङी'ति ह्यस्वे कृते नायमेधतिरिति वृद्धेरप्रवृत्तौ किमेधतेरेजादिविशेषमेनेति वाच्यम्, एकदेशविकृतस्याऽनन्यत्वात्। न चैवमपि `अजादेर्द्वितीयस्ये'ति धिशब्दस्थाने धिधिशब्दादेशे सति वस्नसोरिव प्रकृतिप्रत्ययविभाघसंमोह इति वाच्यं, `द्विः प्रयोगो द्विर्वचनं षष्ठ'मिति भाष्ये सिद्धान्ततत्वात्। अन्यथा इहैव प्रेदिधदित्यत्र णिलोपो न स्यात्, `जिघांसती'त्यादौ सनः सकारेण विशिष्टस्य द्वित्वे कृते कुत्वं च न स्यादिति दिक्। उब्ज आर्जव इति। अयमुपध्मानीयोपध इति वार्तिककृतोक्तम्। तस्य `झलां जश् झशी'ति झश्त्वेन बकारे कृते– अब्जिता उब्जितुमिति रूपम्। एतच्चाऽयोगवाहानां शर्षु पाठस्य फलम्। भाष्यकारादयस्तूपध्मानीयोपधपाठे `उब्जिजिषती'ति रूपं न सिध्येत्। यदि `पूर्वत्राऽसिद्धीयमद्विर्वचने' इत्याश्रित्य बकारोत्तरं द्वित्वं क्रिये, यदि वा अस्याऽनित्यतामाश्रित्य बकारात्पूर्वमेवोपध्मानीयस्य द्वित्वमुभयतापीष्टरूपाऽसिद्धिः, आद्ये उबिब्जिषति, द्वितीये तूपध्मीनीयस्याऽच्त्वात्तदादेः `अजादेर्द्वितीयस्ये'ति द्वित्वे हलादिः शेषे द्वितीयोपध्मानीयस्य जश्त्वेन बकारे पश्चात्प्रथमस्यापि तथैव बकारे उब्ब्जिषतीत्यापत्तेः। ततश्चेष्टसिद्धये दकारोपधोऽयं स्वीकार्यः। `बुजन्युब्जा'विति निपातनादुपधादकारस्य बो भवतीति वाक्यं कल्प्यते, तच्च `स्तोः श्नुना श्चु'रित्यस्याग्रे। तदयमर्थः— श्चुना योगे उद्?जेर्दकारस्य बकार इति। अभ्युद्रः समुद्र इत्यत्र तु उब्जिता उब्जितुमित्यत्रेव चवर्गयोगो नास्तीति न बकारः। दकारोपधे चास्मन्स्वीकरृते `न न्द्राः' इति निषेधाज्जिशब्दस्य द्वित्वे ततो बकारे च उब्जिजिषतीति सिध्यति रूपम्। न च `पूर्वत्रासिद्धीयमद्विर्वचने'इति धकारोत्तरं द्विर्वचने सति स्यादेवाऽनिष्टमिति वाच्यम्, द्विर्वचने हि त्रैपादिकं सिद्धं न तु तन्निषेधेऽपि। तथा च निषेधे त्रिपादीश्थस्याऽसिद्धत्वात् `न न्द्राः' इति निषेधः प्रवर्तते। य्दवा तादृशवाक्यमिह न कल्प्यते किं तु `भुजन्युब्जौ' इति निपातनेन दस्य ब इति। न चैवं बकारसहितस्य द्वित्वप्रसङ्गः, धातोर्दकारोच्चारणसामथ्र्यात्। नचाऽभ्युद्र इत्यादावपि बकारश्रवणप्रसङ्गः, अकुत्वविषय एव बकारनिपातनाभ्युपगमात्। यद्वा अभ्युद्र इत्यादि रूपं द्व्युपसर्गाद्रमेर्डप्रत्यये ज्ञेयम्। उद्?जेस्तु घञि अनभिधात्प्रयोगाऽभाव इति वदन्ति। तदेतद्भाष्यादिमतमभिप्रेत्याह– उपदेशे दकारोपध इत्यादि। अजादेरित्येवेति। `न न्द्राः' इत्यत्र अजादेरित्यनुवर्तते, तेन आदिभूतादचः परा एव नदरा द्विर्नोच्यन्ते नान्ये इत्यर्थः। ननु `लावस्थायामेव `अ'डिति भाष्याकोरक्तपक्षे अदिद्रपदित्यत्र अजादित्वमस्त्येव, न्याय्यश्च प्रथममट्, परत्वादन्तरङ्गत्वाच्चेति चेत्। अत्राहुः– द्वितीयस्येत्यप्यत्रानुवर्तते, तत्सामथ्र्याच्च नित्यं द्वितीयस्येति तदर्थः। तेन लावस्थायामटि कृतेऽपि दातुसंज्ञाप्रवृत्तिकाले अजादित्वाऽभावान्नोक्तदोषः। नित्यं द्वितीयस्यैकाचो ये नदरास्तेषामेव निषेधात्। न चैवं नित्य#ं द्वितीयस्येति व्याख्ययैव इष्टसिद्धावजादेरित्यस्याऽत्रानुवृत्तिर्मास्त्विति वाच्यम्, इन्द्रिदीयिषतीत्यत्र दकारस्यापि द्वित्वनिषेधापत्तेः। अजादेरित्युक्तौ त्वादिभूतदचः परत्वं दकारस्य नेति सिद्धमिष्टम्। न च अजादेरिति कर्मधारयात्पञ्चमीत्युक्तत्वात्। इह च एकदेशे स्वरितत्वं प्रतिज्ञाय अच इत्येवानुवत्र्यताम्। अथवा आदेरित्य्सयाप्यनुवर्तनमस्तु, तस्य नावयवपरत्वं, किंतु पूर्ववर्तिमात्रपरत्वं, शब्दाधिकाराश्रयणादिति ज्ञेयम्। नन्वेवमुत्तरार्थतया द्वितीयस्येति ग्रहणस्य सार्थकत्वे स्थिते `द्वितीयस्येति न वक्तव्य'मिति भाष्यं विरुध्येतेति चेत्। मैवम्। यस्मिन्सूत्रे पठितं तत्र मास्त्विति तदाशयात्। रन च अजादेरित्येतावत्युक्तेयस्य कस्यचिदेकाचो द्वित्वं स्यादिति वाच्यम्, प्रथमस्यैकाचः पूर्वेणैव सिद्धेः पुनरारम्भो द्वितीयस्य द्वित्वार्थमिति सुवचत्वात्।

Satishji's सूत्र-सूचिः

TBD.