कृप: ६/१॥ रः ६/१॥ लः १/१॥ भाषार्थ: [कृप:] कृप धातु के [रः] रेफ को [ल:] लकारादेश होता है॥ ’र:’ से यहाँ सामान्यरूप से रेफ लिया गया है। सो ऋकार में रेफश्रुति, एवं ऋ को गुण रपरत्व होकर जो रेफ दोनों को लश्रुति वा लत्व होता है।। सिध्दियां लुटि च क्लृप: (1-3-93) सूत्र मे देखें। गुण होकर कर् प् ता= कल्प्ता बना। निष्ठा में जहा गुण नहीं हुआ, वहाँ ऋ की रेफश्रुति को लश्रुति होकर क्लृप्तः क्लृप्तवान् बना॥ यहाँ से ’रो लः’ की अनुवृत्ति 8-2-22 तक जायेगी॥
कृपेः धातोः रेफस्य लकारादेशो भवति। रः इति श्रुतिसामान्यम् उपादीयते। तेन यः केवलो रेफो, यश्च ऋकारस्थः, तयोर् द्वयोरपि ग्रहणम्। लः इत्यपि सामन्यम् एव। ततो ऽयं केवलस्य रेफस्य स्थाने लकारादेशो विधीयते। ऋकारस्य अप्येकदेशविकारद्वारेण लृकारः, एवं च लुटि च क्लृपः 1-3-93 इत्येवम् आदयो निर्देशा उपपद्यन्ते। कल्प्ता। कल्प्तारौ। कल्प्तारः। चिक्लृप्सति। क्लृप्तः। क्लृप्तवान्। कृपा इत्येततृपेः सम्प्रसारणम् च इति भिदादिषु पाठाद् भवति। तस्य हि कृतसम्प्रसारणस्य लाक्षणिकत्वातिह कृपः इति ग्रहणं न अस्ति। कृपणकृपीटक्रपूरादयो ऽपि क्रपेरेव द्रष्टव्याः। उणादयो बहुलम् 3-3-1 इति वा कृपेरेव लत्वाभावः। वालमूललघ्वसुरालम् अङ्गुलीनां वा रो लमापद्यत इति वक्तव्यम्। वालः, वारः। मूलम्, मूरम्। लघु, रघु। असुरः, असुलः। अलम्, अरम्। अङ्गुलिः, अङ्गुरिः। कपिलकादीनां संज्ञाछन्दसोर् वा रो लमापद्यत इति वक्तव्यम्। कपिरकः, कपिलकः। तिल्पिलीकम्, तिर्पिरीकम्। लोमानि, रोमाणि। पांशुरम्, पांशुलम्। कर्म, कल्म। शुक्रः, शुक्लः। रलयोरेकत्वस्मरणम् इति केचित्। किम् इदम् एकत्वस्मरणमिति? समानविषयत्वम् एव तयोः स्मर्यते इत्यर्थः।
For the र् of the root कृप्, there is substituted ल्॥#
–
189 तङि प्रथमपुरुषैकवचनस्य टेरेत्त्वे शपि लघूपधगुणे रपरत्वे कर्पते इति स्थिते- - कृपो रो लः। `कृप' इति लुप्तविभक्तिकम्। षष्ठ\उfffदेकवचने उदिति ऋकरास्य रूपम्। अवयवषष्ठी। कृप उरिति स्थिते आद्गुणे कृपोरिति भवति। `र' इति षष्ठ\उfffद्न्तम्। कृपोर् रः इति स्थिते `रो री'ति रेफलोपे `कृपो रः' इति भवति। `ल' इति प्रथमान्तम्। अकार उच्चारणार्थः। तदाह— कृप उः [रः ल] इति च्छेद इति। एतच्च ऋलृक्सूत्रभाष्ये स्थितम्। ननु कृपेत्यत्र का विभक्तिर्लुप्तेत्यत आह– लुप्तषष्ठीकमिति। पकारादकार उच्चारणार्थः। कृप्धातोरिति लभ्यते। तच्चावर्तते इति। कृप रः लः इति पदत्रयमावर्तत इत्यर्थः। तथा च वाक्यद्वयं संपद्यते– `कृप रः लः' इत्येकं वाक्यम्। तदाह– कृपो यो रेफस्तस्य लः स्यादिति। तथा च `कल्पते' इति भवति। `कृप उः रः लः' इति द्वितीयं वाक्यम्। तत्र कृपेत्वयवषष्ठ\उfffद्न्तम् उरित्यत्रान्वेति। उरित्यवयवषष्ठ\उfffद्न्तं रेफे अन्वेति। तथाच कृप्धातोरवयवो य ऋकारस्तस्य यो रेफस्तस्य लकारः स्यादिति लभ्यते। तत्र ऋकारादवयवत्वं रेफस्य न संभवतीति रेपशब्दो रेफसदृशे ऋकारांशे लाक्षणिकः। ल इत्यपि लकारसदृशे लृकारांशे लाक्षणिकः। तदाह– कृपेरृकारस्यावयव इत्याद#इना। एवं च लिटि चकृप् ए इतिस्थिते कित्त्वाद्गुणाऽबावे ऋकारैकदेशस्य रेफसदृशस्य लकारसदृशे सति `चक्लृपे' इति रूपम्। `कृपः रः लः' इति च्छेदमभ्युपगम्य कृपधातो रेफस्य लकार इति व्याख्याने तु `चक्लृपे' इति न सिध्येत्। तदर्थमावृत्तिराश्रितेत्यभिप्रेत्याह– कल्पते चक्लृपे इति। ऊदित्त्वादिड्विकल्पं मत्वा आह– चक्लृपिषे चक्लृप्से इति। स्यन्दिवदिति। चक्लृपाथे चक्लृपिध्वे– चक्लृब्ध्वे। चक्लृपे चक्लृपिवहे, चक्लृपिमहे- चक्लृप्महे।
162 `कृपो रो लः' इत्यर्वाचीनपाठस्तु नादर्तव्य इति ध्वनयति- - कृपेरृकारस्येत्यादिना। वर्णैकदेशस्य वर्णग्रहणेन ग्रहणादाह–रेफसदृश इति। एवं चात्र कृपेत्यस्यावृत्तिरवश्यं स्वीकर्तव्या। तथा च `लुटि च क्लृपः' इत्यादिसौत्रनिर्देशोऽप्युपपद्यत इति भावः।
TBD.