Table of Contents

<<8-1-7 —- 8-1-9>>

8-1-8 वाक्यादेरामन्त्रितस्य असूयासम्मतिकोपकुत्सनभर्त्सनेषु

प्रथमावृत्तिः

TBD.

काशिका

एकार्थः पदसमूहो वाक्यम्। वाक्यादेरामन्त्रितस्य द्वे भवतः असूयासम्मतिकोपकुत्सनभर्त्सनेषु यदि तद् वाक्यं भवति। तत्र परगुणानामसहनम् असूया। पूजा सम्मतिः। कोपः क्रोधः। निन्दनं कुत्सनम्। अपकारशब्दैर्भयोत्पादनं भर्त्सनम्। एते च प्रयोक्तृधर्माः, नाभिधेयधर्माः। असूयायाम् तावत् माणवक 3 माणवक, अभिरूपक 3 अभिरूपक, रिक्तं ते आभिरूप्यम्। सम्मातौ माणवक 3 माणवक, अभिरूपक 3 अभिरूपक, शोभनः खल्वसि। कोपे माणवक 3 माणवक, अविनीतक 3 अविनीतक, इदानीं ज्ञास्यसि जाल्म। कुत्सने शक्तिके 3 शक्तिके, यष्टिके 3 यष्टिके, रिक्ता ते शक्तिः। भर्त्सने चौर चौर 3, वृषल वृषल 3, घातयिष्यमि त्वां बन्धयिष्यामि त्वाम्। असूयादिषु स्वरितम् आम्रेडिते ऽसूयासंमतिकोपकुत्सनेषु 8-2-103 इति पूर्वपदस्य प्लुतः। भर्त्सने तु आम्रेडितं भर्त्सने 8-2-95 इत्याम्रेडितस्य एव प्लुतः। वाक्यादेः इति किम्? अन्तस्य मध्यमस्य च मा भूत्, शोभनः खल्वसि माणवक। आमन्त्रितस्य इति किम्? उदारो देवदत्तः। असूयादिषु इति किम्? देवदत्त गामभ्याज शुक्लाम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

वाक्यादेः। `द्वे स्त' इति शेषः। यद्यपि कोपाद्भत्र्सनम्, असूयया कुत्सनं, तथापि विनापि कोपाऽसूये भत्र्सनकुत्सनयोः शिष्यादौ संभवात्पृथग्ग्रहणमिति भाष्ये स्पष्टम्। सुन्दरेति। सोन्दर्यमसहमानस्येदं वाक्यम्। देवेति। तव वन्दनं सम्मतिमित्यर्थः। दुर्विनीतेति। क्रोधाविष्टस्य वाक्यम्। ज्ञास्यसीति। `दुर्विनयस्य फल'मिति शेषः। धानुष्केति। युद्धाऽसमर्थं प्रति निन्देयम्। चोरेति। चोरं प्रति अवाच्यवादोऽयम्।

तत्त्वबोधिनी

1593 वाक्यादेः। सुन्दरसुन्दरेत्यादि। `स्वरितमाम्रेडितेऽसूयासंमतिकोपकुत्सनेषु', `आम्रेडितं भत्र्सने'इति सूत्राभ्यां यतायथं प्राप्तःप्लुतौ वैकल्पिकत्वान्नेह कृतः। उक्तं हि प्राक् `सर्वः प्लुतो वैकल्पिकः'इति। नन्वत्र कोपाऽसूयाभ्यां पृथक्कुत्सनभत्र्सनग्रहणमपार्थकम्। न ह्रसूयां विना कुत्सयते, न वा अकुपितो भत्र्सयते इथि चेकत्। अत्राहुः—गुरवो हि हतैषित्वादकुपिता अपि भत्र्सनं कुर्वते, `विनाप्यसूयां कुत्सां कुर्वन्ती'ति पृथक्तया निर्देशः सूत्रकारेण कृतः। `साऽमृतैः पाणिभिर्ध्नन्ति गुरवो न विषोक्षितैः। लालनाश्रयिणो दोषास्ताडनाश्रयिणो गुणा'इति।

Satishji's सूत्र-सूचिः

TBD.