TBD.
उपरि अधि अधसित्येतेषां द्वे भवतः सामीप्ये विवक्षिते। सामीप्यं प्रत्यासत्तिः कालकृता देशकृता च। उपर्युपरि दुःखम्। उपर्युपरि ग्रामम्। अध्यधि ग्रामम्। अधो ऽधो नगरम्। सामीप्ये इति किम्? उपरि चन्द्रमाः। इह कस्मान् न भवति, उपरि शिरसो घटं धारयति? औत्तराधर्यम् एव विवक्षितं न सामीप्यम् इति द्विर्वचनं न भवति।
TBD.
–
उपर्यध्यधसः। उपरि, अधि, अधः एतेषां द्वे स्तः सामीप्ये गम्ये इत्यर्थः। सामीप्यं च उपर्युपरि ग्राममित्यत्र अधोऽधो लोकमित्यत्र च देशतः, अध्यधि सुखमित्यत्र तुकालत इति ज्ञेयम्।
1592 उपर्यध्य। सामीप्यं प्रत्यासत्तिः, तच्च कालकृतं देशकृतं वा। अध्यधि सुखमिति। कालकृतस्योदाहरणमिदम्। सामीप्य इति किम्?ष उपरि चन्द्रमाः। `उपरि शिरसो घचं धारयती'त्यत्र तु वस्तुतो विद्यमानमपि सामीप्यं न विवक्षितं, किं त्वौत्तराधर्यमेव केवलं विवक्षितमिति द्विर्वचनं नभवति। विवक्षा हि शब्दव्युत्पत्तेः प्रधानं कारणम्। अत्र च `उपज्ञोपक्रमं तदाद्यचिख्यासाया'मिति सन्नन्तप्रयोगो ज्ञापक इत्याहुः।
TBD.