Table of Contents

<<8-2-102 —- 8-2-104>>

8-2-103 स्वरितम् आम्रेडिते ऽसूयासम्मतिकोपकुत्सनेषु

प्रथमावृत्तिः

TBD.

काशिका

स्वरितः प्लुतो भवति आम्रेडिते परतः असूयायाम्, सम्मतौ, कोपे, कुत्सने च गम्यमाने। वाक्यादेरामन्त्रितस्य असूयासम्मतिकोपकुत्सनभर्त्सनेषु 8-1-8 इति द्विर्वचनम् उक्तम्, तत्र अयं प्लुतविधिः। असूयायां तवत् माणवक3 माणवक, अभिरूपक3 अभिरूपक, रिक्तं त आभिरूप्यत्म्। सम्मतौ माणवक3 माणवक, अभिरूपक3 अभिरूपक, शोभनः खल्वसि। कोपे माणवक3 माणवक, अविनीतक3 अविनीतक, इदानीं ज्ञास्यसि जाल्म। कुत्सने शाक्तीक3 शाक्तीक, याष्टीक3 याष्टीक, रिक्ता ते शक्तिः। असूयादिषु वावचनं कर्तव्यम्। माणवक माणवक इत्येवमाद्यपि यथा स्यात्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.