Table of Contents

<<8-1-8 —- 8-1-10>>

8-1-9 एकं बहुव्रीहिवत्

प्रथमावृत्तिः

TBD.

काशिका

एकम् इत्येतच् छब्दरूपं द्विरुक्तं बहुव्रीहिवद् भवति। बहुव्रीहिवत्त्वे प्रयोजनं सुब्लोपपुंवद्भावौ। कैकमक्षरं पठति। एकैकया आहुत्या जुहोति। सर्वनामसंज्ञाप्रतिषेधस्वरसमासान्ताः समासाधिकारविहिते बहुव्रीहौ विज्ञायन्ते। तेन अतिदेशिके बहुव्रीहौ न भवन्ति। एकैकस्मै। न बहुव्रीहौ 1-1-129 इति प्रतिषेधो न भवति, बहुव्रीहिरेव यो बहुव्रीहिः इति विज्ञानात्। नन, सुसु, नञ्सुभ्याम् 6-2-172 इत्यन्तोदात्तत्वं न भवति। ऋकृक्, पूः पूः, ऋक् पूः इति समासान्तो न भवति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

एकं बहुव्रीहिवत्। द्विरुक्त इति। द्विर्वचनं प्राप्त इत्यर्थः। एतच्च प्रकरणाल्लभ्यते, `वीप्सामात्रविषयमिद'मिति भाष्याच्च। तेनेति। बहुव्रीहिवत्त्वेन सुब्लोपपुंवद्भावौ सिध्यत इत्यर्थः। तत्र सुब्लोपमुदाहरति-एकैकमिति। इहेति। `एकैक'मित्यत्र एकमित्यस्य द्विर्वचने सति, एकमेकमिति स्थिते सुपो लुकि, समुदायात्सुबित्यन्वयः। ननु `यत्र सङ्घाते पूर्वो भागः पदं तस्य चेद्भवति तर्हि समासस्यैवे'ति नियमेन समुदायस्य प्रातिपदिकत्वाऽभावात्कथमिह सुपो लुक्, कथं वा समुदायात्सुबित्यत आह–बहुव्रीहिवद्भावादेव प्रातिपदिकत्वादिति। एतच्च `सुपोर्लुकी'त्यत्र, `समुदायात्सु'बित्यत्र च मध्यमणिन्यायेनान्वेति। अथ पुंवत्त्वेऽप्युदाहरति–एकैकयाऽऽहुत्येति। `एकये'त्यस्य द्विर्वचने सति एकया– एकयेति स्थिते, `बहुव्रीहिवत्त्वेन समुदायस्य प्रातिपदिकत्वात्सुपोर्लुकि, पूर्वखण्डस्य पुंवत्त्वे कृते, समुदायात्पुनस्तृतीयोत्पत्तौ, एकैकयेति रूपम्। बहुव्रीहिवत्त्वाऽभावे तु इह समुदायस्य प्रातिपदिकत्वा।ञभावात्सुपोर्लुक्, पूर्वखण्डस्य पुंवत्त्वं च न स्यात्, उत्तरपदपरकत्वाऽभावात्, समासचरमावयवस्यैव उत्तरपदत्वादिति भावः। `एक#ऐका'मित्यत्र उत्तरखण्डस्य `सर्वनाम्नो वृत्तिमात्रे' इति पुंवत्त्वं बहुव्रीहिवत्त्वे सत्यपि न प्रवृत्तिमर्हति, पूर्वस्यैवेदं `भस्त्रैषाद्वे' ति लिङ्गादित्युक्तत्वादिति। बोध्यम्। ननु सुपोर्लुकि पूर्वखण्डस्य एकाशब्दस्य पुंवत्त्वे सत्यसति वा वृद्धौ एकैकयेति सिध्यत्येवेत्यत आह–इह पूर्वभागे इति। अवग्रहे इति। समस्तपदस्य द्विधा करणे पूर्वखण्डोऽवग्रहः। `तस्य पूर्वोऽवग्रहः' इति प्रातिशाख्यम्। `एकैकयेत्येक-एकया' इतीष्यते पूर्वखण्डस्य पुवत्त्वम्। बहुव्रीहिवत्त्वाऽभावे तु एकैकयेत्येका-एकयेति स्यादिति भावः। तैत्तिरीयास्तु `एकैकयेत्येका एकया' इत्येवाऽवगृह्णन्ति। `एकं समासव'दित्येव सिद्धे बहुव्रीहिग्रहणं `बहुव्रीहौ प्रकृत्यापूर्वपद'मिति स्वरार्थम्। ननु बहुव्रीहिवत्त्वे सति `न बहिव्रीहौ' इति सर्वनामत्वनिषेधादेकैकस्यैदेहीत्यादौ कथं सर्वनामकार्यमित्यर्थ आह–न बहुव्रीहावित्यत्रेति। `विभाषा दिक्समासे बहुव्रीहौ' इत्यतो बहुव्रीहिग्रहणानुवृत्त्यैव सिद्धे न बहुव्रीहौ' इत्यत्र पुनर्बहुव्रीहिग्रहणं मुख्यबहुव्रीहिलाभार्थम्। अतो बहुव्रीहिवदित्यतिदिष्टबहुव्रीहौ सर्वनामत्वनिषेधो नेत्यर्थः। तदाह–त#एनेति। तदेवं प्राचीनोक्तं परिहारमुक्त्वा सिद्धान्तिमतेनाह–वस्तुतस्त्विति। एतदिति। `न बहुव्रीहौ' इति सूत्रमित्यर्थः। एवं च बहुव्रीहावपि सर्वंनामत्वस्य भाष्यसंमततया बहुव्रीहिवत्त्वातिदेशे सत्यपि सर्वनामत्वं निर्बाधमिति भावः। सूत्रमतेऽपीति। `उपसर्जनत्वादेव बहुव्रीहौ सर्वनामत्वनिषेधेसिद्धे ` नबहुव्रीहौ' इति बहुव्रीह्रर्थके अलौकिकविग्रहवाक्ये एव समासात्प्राक्सर्वनामत्वं निषिध्यत इति प्रागेवोक्तम्। तस्मादिह बहुव्रीह्रतिदेशप्रयुक्तसर्वनामकार्याऽभावशङ्कैव नास्तीत्यर्थः। एकैकस्मै देहीति। इह द्वयोरपि सुपोर्लुकि पुनः सर्वादिपठितैकशब्दान्ततया सर्वनामत्वात्समैभाव इति भावः।

तत्त्वबोधिनी

1594 एकं बहुव्रीहिवत्। द्वे इत्यनुवर्तते। तच्चानुवाद्यसमर्पकं, तदाह—द्विरुक्त इति। तेनेति। यद्यप्येतौ बहुव्रीहौ विशिष्य न विहितौ , तथापि तत्र दृष्टवित्येतावतैवातिदिश्येते इति भावः। सुब्लोपपुंवद्भावाविति। पूर्वपदप्रकृतिस्वरश्च बोध्यः। समुदायात्सुबिति। तच्चैकवचनमेवेति, अन्तरङ्गैकसङ्ख्यावरुद्धो द्विरुक्तार्थः सङ्ख्यान्तरे निराकाङ्क्ष इतिप्रागेवोक्तत्वात्। पूर्वभाग इति। नतूत्तरभागेऽपि। तथाहि द्विधाऽत्र पुंवद्भावः `सर्वनाम्नो वृत्तिमात्रे'इति वा, `स्त्रियाः पुंव'दिति वा। तत्राद्यः पूर्वभागस्यैव, `भस्त्रैषे'ति ज्ञापकादित्युक्तम्। द्वितीयस्तु समानाधिकरणे परे विधीयते, न चोत्तरबागस्य समानादिकरणपरत्वमस्तीति भावः। अवग्रहे विशेषैति। `एकैकयेत्येकएकये'ति भवतीत्यर्थः। एकैकस्मै इति। ननु सुब्लोपपुंवद्भावाविव बहुव्रीहौ सर्वनामसंज्ञाऽभावोऽपि दृष्ट इत्ययमपि बहुव्रीहिवद्भावेनातिदिश्यताम्, तथाच स्मायादेशोऽत्र दुर्लभ इति चेत्। अत्राहुः—-सुब्लोपपुंवद्भावाविव सर्वनामसंज्ञाऽभावः शास्त्रेण न दृष्ट। किं तु बहुव्रीहेर्गौणत्वात्सर्ववाचकत्वं न संभवतीति तदभावो दृष्ट इति नायमतिदिश्यते। `न बहुव्रीहौ'इति शास्त्र#ं त्वलौकिकवाक्ये निषेधकं , नतु बहुव्रीहावित्युक्तत्वादिति।

Satishji's सूत्र-सूचिः

TBD.