Table of Contents

<<8-1-18 —- 8-1-20>>

8-1-19 आमन्त्रितस्य च

प्रथमावृत्तिः

TBD.

काशिका

आमन्त्रितस्य पदस्य पदात् परस्य अपदादौ वर्तमानस्य सर्वम् अनुदात्तं भवति। पचसि देवदत्त। पचसि यज्ञदत्त। आमन्त्रिताद्युदात्तत्वे प्राप्ते वचनम्। समानवाक्ये निघातयुष्मदस्मदादेशा वक्तव्याः। इह मा भूवन्, अयं दण्डो हर अनेन, ओदनं पच तव भविष्यति, ओदनं पच मम अभविष्यति। इह च यथा स्यात्, इह देवदत्त माता ते कथयति, नद्यास्तिष्ठति लूके, शालीनां ते ओदनं दास्यामि इति। आमन्त्रितान्तं तिङन्तं युष्मदस्मदादेशाश्च यस्मात् पराणि न तेषां सामर्थ्यम् इति तदाश्रया निघातयुष्मदस्मदादेशा न स्युः, समर्थः पदविधिः 2-1-1. इति वचनात्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.