Table of Contents

<<8-1-16 —- 8-1-18>>

8-1-17 पदात्

प्रथमावृत्तिः

TBD.

काशिका

पदातित्ययम् अधिकारः प्राक् कुत्सने च सुप्यगोत्रादौ 8-1-69 इत्येतस्मात्। यदिति ऊर्ध्वम् अनुक्रमिष्यामः पदातित्येवं तद् देदितव्यम्। वक्ष्यति आमन्त्रितस्य च 8-1-19। आमन्त्रितस्य पदात् परस्य अनुदात्तादेशो भवति इति। पचसि देवदत्त। पदातिति किम्? देवदत्त पचसि।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

355 पदात्। `कुत्सने च सुप्यगोत्रादौ'इत्यतः प्रागयमधिकारः। यदि तु `कपत्सने च सुपी'त्यत्रापि पदादित्यनुवर्तते, तदा `देवदत्तः पचति पूति'त्यत्रैव निघातः स्यान्न तु `पचति पूती'त्यत्र।

Satishji's सूत्र-सूचिः

TBD.