Table of Contents

<<8-1-68 —- 8-1-70>>

8-1-69 कुत्सने च सुप्यगोत्रादौ

प्रथमावृत्तिः

TBD.

काशिका

पदातिति निवृत्तम्। सगतिरपि तिङिति वर्तते। कुत्सने च सुबन्ते गोत्रादिवर्जिते परतः सगतिरपि तिङगतिरपि अनुदात्तो भवति। पचति पूति। प्रपचति पूति। पचति मिथ्या। प्रपचति मिथ्या। कुत्सने इति किम्? पचति शोभनम्। सुपि इति किम्? पचति क्लिश्नाति। अगोत्रादौ इति किम्? पचति गोत्रम्। पचति ब्रुवम्। पचति प्रवचनम्। क्रियाकुत्सन इति वक्तव्यम्। कर्तुः कुत्सने मा भूत्, पचति पूतिर् देवदत्तः। प्रपचतिपूतिः। पूतिश्चानुबन्धो भवति इति वक्तव्यम्। तेन अयं चकारानुबन्धकत्वादन्तोदात्तो भवति। विभाषितं च अपि बह्वर्थम् अनुदात्तम् भवति इति वक्तव्यम्। पचन्ति पूतिः, पचन्ति पूतिः। प्रपचन्ति पूतिः, प्रपचन्ति पूतिः। सुपि कुत्सने क्रियाया मलोप इष्टो ऽतिङि इति चोक्तार्थम्। पूतिश्च चानुबन्धो विभाषितं च अपि बह्वर्थम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.