Table of Contents

<<7-3-5 —- 7-3-7>>

7-3-6 न कर्मव्यतिहारे

प्रथमावृत्तिः

TBD.

काशिका

कर्मव्यतिहारे यदुक्तं तन् न भवति। प्रतिषेधागमयोरयं प्रतिषेधः। व्यावक्रोशी, व्यावलेखी, व्याववर्ती, व्यावहासी वर्तते। कर्मव्यतिहारे णच् स्त्रियाम् 3-3-43 इति णच्प्रययः, तदन्तात् णचः स्त्रियाम् अञ् 5-4-14

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

1532 ऐच् नेति। `न य्वाभ्या'मिति प्राप्तस्य निषेधेनादिवृद्धिरेव। णचस्तद्धितत्वाऽभावेऽप्यञस्तद्धितत्वादिति भावः। कृद्ग्रहमपरिभाषया सोपसर्गधातोर्णजन्तत्वात्ततोऽञि तत्प्रयुक्तादिवृद्धिरुपसर्गस्येत्याशयेनोदाहरति- - वयावक्रोशीति। क्रुश आह्वाने, हसे हसने।स्यादेतत्–`स्त्रियां क्ति'न्निति प्रकरण एवायं मज्विधेयः। एवंच स्त्रियामिति न कर्तव्यमिति लाघवमिति चेन्मैवम्। स्त्रियामित्यधिकारे वासरूपविधिनिषेधापत्तेः। इष्यते तु व्यावक्रुष्टिरिति। स्त्रियां क्तिन्नपि अपवादविषये क्वचिदिष्यते– व्यावचोरी। इह `ण्यासश्रन्थे' ति युच्प्राप्तः। व्यात्यक्षी। अत्र `गुरोश्च हलः' इत्यकारप्रत्ययः प्राप्तः। क्वचिदकार एवेष्यते, न तु णच्। व्यतीक्षा, व्यतीहा। सैषा व्यवस्था न्यायतो दुर्लभाऽपि बाहुलकात्स्वीकार्या।

Satishji's सूत्र-सूचिः

TBD.