Table of Contents

<<3-3-42 —- 3-3-44>>

3-3-43 कर्मव्यतिहारे णच् स्त्रियाम्

प्रथमावृत्तिः

TBD.

काशिका

कर्म क्रिया। व्यतिहारः परस्परकरणम्। कर्मव्यतिहारे गम्यमाने धातोः णच् पत्ययो भवति स्त्रीलिङ्गे वाच्ये। तच् च भावे। चकारो विशेषणार्थः णचः स्त्रियाम् अञ् 5-4-14 इति। व्यावक्रोशी। व्यावलेखी। व्यावहासी वर्तते। स्त्रियाम् इति किम्? व्यतिपाको वर्तते। बाधकविषये ऽपि क्वचिदिष्यते, व्यावचोरी, व्यावचर्ची। इह न भवति। व्यतीक्षा, व्यतीहा वर्तते। व्यात्युक्षी भवति। तदेतद् वैचित्र्यं कथं लभ्यते? कृत्यल्युटो बहुलम् 3-3-113 इति भवति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

1530 कर्मव्यतिहारे णच्। कर्मव्यतिहारः क्रियाव्यतिहारः। परस्परकरणमिति यावत्। तत्र वर्तमानाद्धातोरित्यर्थः। भावे णजिति। कर्तृवर्चिते कारके न भवत्यनभिधानादित्याहुः। `भावादा'विति प्राचोक्तं यत्तदुपेक्ष्यम्, आकरविरोधात्।

Satishji's सूत्र-सूचिः

TBD.