Table of Contents

<<7-3-6 —- 7-3-8>>

7-3-7 स्वागताऽदीनां च

प्रथमावृत्तिः

TBD.

काशिका

स्वागत इत्येवम् आदीनां यदुक्तं तन् न भवति। स्वागतम् इत्याह स्वागतिकः। स्वध्वरेण चरति स्वाध्वरिकः। स्वङ्गस्य अपत्यम् स्वङ्गिः। व्यङ्गस्य अपत्यम् व्याङ्गिः। व्यडस्य अपत्यम् व्याडिः। व्यवहारेण चरति व्यावहारिकः। व्यवहारशब्दो ऽयं लौकिके वृत्ते वर्तते, न तु कर्मव्यतिहारे। स्वपतौ साधुः स्वापतेयः। द्वारादिषु स्वशब्दपाठादत्र प्राप्तिः। स्वागत। स्वध्वर। स्वङ्ग। व्यङ्ग। व्यड। व्यवहार। स्वपति। स्वागतदिः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1528 स्वागतादिगणे-स्वागत, स्वध्वर इति पठितं, तत्र विशेषमाह–स्वागतादीनां च। `न य्वाभ्यां पदान्ताभ्यां पूर्वौ तु ताभ्यामैच' इति प्रकरणे `न कर्मव्यतिहारे' इत्यस्मादुत्तरं सूत्रमिदम्। ऐज्न स्यादिति। शेषपूरणमिदम्। `न य्वाभ्यां पदान्ताभ्यां पूर्वौ तु ताभ्यामैच' इति प्राप्त ऐज्न स्यादित्यर्थः। स्वाध्वरिक इति। स्वध्वर इत्याहेत्यर्थः। अथ स्वागतादिगणशेषमुदाहरति–स्वङ्गस्येति। व्याङ्गिरिति। व्यङ्गस्यापत्यमिति विग्रहः। व्यडस्येति। न विद्यते डो यस्य स अडः, विगतोऽडो व्यडः। स्वापतेयमिति। `पथ्यतिथिवसतिस्वपतेर्ढञ्'। द्वारादित्वादैच् प्राप्तो निषिध्यते। \र्\नाहाविति। आहेति पदैकदेशादिकारस्य उच्चारणार्थो निर्देशः। तदिति पूर्ववार्तिकादनुवर्तते। आहेत्यर्थे द्वितीयान्तेभ्यः प्रभूतादिभ्यष्ठग्वाच्य इत्यर्थः। पार्याप्तिक इति। पर्याप्तमाहेत्यर्थः।

सुस्नातादिभ्यष्ठग्वाच्य इत्यर्थः। सौखशायनिक इति। सुखशयनं पृच्छतीत्यर्थः। अनुशतिकादिरिति। `सुखशयनशब्द' इति शेषः। ततश्च `अनुशतिकादीनां चे'ति पूर्वोत्तरपदयोरादिवृद्धिरिति भावः। गच्छतीत्यर्थे परदारादिभ्यो द्वितीयान्तेभ्यष्ठगित्यर्थः। पारदारिक इति। परदारान्गच्छतीत्यर्थः। गौरुतल्पिक इति। गुरुतल्पं गच्छतीत्यर्थः। गुरुतल्पो=गुरुस्त्री।

तत्त्वबोधिनी

1189 स्वपतेयमिति। `पथ्यतिथि वसतिस्वपतेर्ढञ'। स्वशब्दस्य द्वारादित्वादैजागमस्य प्राप्तिः। द्वारादित्वफलं तु स्वस्येदं `सौव'मिति ज्ञेयम्।\र्\नाहौ प्रभूतादिभ्यः। आहाविति। `उपसङ्ख्यान'मित्यनुषज्यते। आहेतिपदे एकदेशस्य प्रकृतिभागस्यागन्तुकेनेकारेण `आहा'वित्यनुकरणम्। प्राभूतिक इति। क्रियाविशेषणाद्वक्तरि प्रत्ययः।

Satishji's सूत्र-सूचिः

TBD.