Table of Contents

<<5-4-13 —- 5-4-15>>

5-4-14 णचः स्त्रियाम् अञ्

प्रथमावृत्तिः

TBD.

काशिका

कर्मव्यतिहारे णच् स्त्रियाम् 3-3-43। इति णच् विहितः, तदन्तात् स्वार्थे अञ् प्रत्ययो भवति स्त्रियां विषये। व्यावक्रोशी। व्यावहासी वर्तते। स्त्रीग्रहणं किमर्थम्, यावता णच् स्त्रियाम् एव विहितः, ततः स्वार्थिकस् तत्र एव भविष्यति? एवं तर्ह्येतज् ज्ञापयति स्वार्थिकाः प्रत्यया प्रकृतितो लिङ्गवचनान्यतिवर्तन्ते ऽपि इति। तेन गुडकल्पा द्राक्षा, तैलकल्पा प्रसन्ना, देव एव देवता इत्येवम् आदि उपपन्नं भवति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

1531 णचः स्त्रि। अनेन णजिति चकारोऽत्र विशेषणार्थं इति ध्वनितम्। स्त्रियां किम् ?। व्यतिपाको वर्तते।

Satishji's सूत्र-सूचिः

TBD.