Table of Contents

<<7-3-4 —- 7-3-6>>

7-3-5 न्यग्रोधस्य च केवलस्य

प्रथमावृत्तिः

TBD.

काशिका

न्यग्रोधशब्दस्य केवलस्य यकारादुत्तरस्य अचामादेः अचः स्थाने वृद्धिर् न भवति, तस्माच् च पूर्वम् ऐकार आगमो भवति। न्यग्रोधस्य विकारः नैयग्रोधः चमसः। केवलस्य इति किम्? न्यग्रोधमूले भवाः शालयः न्याग्रोधमूलाः शालयः। न्यग्रोधयति इति न्यग्रोधः इति व्युत्पत्तिपक्षे नियमार्थम्, अव्युत्पत्तिपक्षे विध्यर्थम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1522 न्यग्रोधस्य च। `न य्वाभ्या'मित्युत्तरसूत्रमिदम्। अस्येति केवलस्य न्यग्रोधस्येत्यर्थः। केवलत्वं पदान्तरविहीनत्वं। न्यक् रोहितीति न्यग्रोध इति व्युत्पत्तिपक्षे यद्यपि `नय्वाभ्या'मित्येव सिद्धं, यकारस्य पदान्तत्वात्। तथापि केवलस्यैव इति नियमार्थं सूत्रम्। अव्युत्पत्तिपक्षे तु यकारस्य अपदान्तत्वाद्विध्यर्थमेव। केवलस्य किम् ?। न्याग्रोधमूलाः शालयः।

तत्त्वबोधिनी

1185 न्यग्रोधस्य च। केवलस्येति किम्?। न्यग्रोमूले भवा न्याग्रोधमूलाः–शालयः। न्यक्–रोहतीति न्यग्रोध इति व्युत्पत्तिपक्षे नियमार्थम्, अव्युत्पत्तिपक्षे तु विध्यर्थम्।

Satishji's सूत्र-सूचिः

TBD.