TBD.
अनुशतिक इत्येवम् आदीनां चाङ्गानां पूर्वपदस्य च उत्तरपदस्य च चामादेरचः स्थाने वृद्धिर् भवति तद्धिते ञिति, णिति, किति च परतः। अनुशतिकस्य इदम् आनुशातिकम्। अनुहोडेन चरति आनुगौडिकः। अनुसंवरणे दीयते आनुसांवरणम्। अनुसंवत्सरे दीयते आनुसांवत्सरिकः। अङ्गारवेणुः नाम कश्चित्, तस्य अपत्यम् आङ्गारवैणवः। असिहत्य तत्र भवम् आसिहात्यम्। अस्यहत्य इति केचित् पठन्ति, ततो ऽपि विमुक्तादित्वादण्। अस्यहत्यशब्दो ऽस्मिन्नध्याये ऽस्ति आस्यहात्यः। अस्यहेतिः इत्येवम् अपरे पठन्ति। अस्यहेतिः प्रयोजनम् अस्य आस्यहैतिकः। अत एव वचनादस्य समुदायस्य प्रातिपदिकत्वं विभक्तेश्च अलुक्। वध्योग इति बिदादिः अयम्, तस्य अपत्यम् वाध्यौगः। पुष्करसद्, अनुहरतिति बाह्वादिषु पठ्येते। पौष्करसादिः। आनुहारतिः। कुरुकत गर्गादिः , कौरुकात्यः। कुरुपञ्चाल कुरुपञ्चालेषु भवः कौरुपाञ्चालः। जनपदसमुदायो जनपदग्रहणेन न गृह्यते इति वुञ् न भवति। उदकशुद्धस्य अपत्यम् औदकशौद्धिः। इहलोक, परलोक तत्र भवः ऐहलौकिकः, पारलौकिकः। लोकोत्तरपदस्य इति ठञ्। सर्वलोक तत्र विदितः सार्वलौकिकः। सर्वपुरुषस्य इदम् सार्वपौरुषम्। सर्वभूमेः निमित्तं संयोगः उत्पातो वा सार्वभौमः। प्रयोग तत्र भवः प्रायौगिकः। परस्त्री पारस्त्रैणेयः। कुलटाया वा 4-1-127 इति इनङ्। राजपुरुषात् ष्यञि। राजपौरुष्यम्। ष्यञि इति किम्? राजपुरुषस्य अपत्यम् राजपुरुषायणिः। उदीचां वृद्धादगोत्रात् 4-1-157 इति फिञ्। शतकुम्भसुखशयनादयः शतकुम्भे भवः शातकौम्भः। सौखशायनिकः। पारदारिकः। सूत्रनडस्य अपत्यम् सौत्रनाडिः। आकृतिगणश्च अयम् इष्यते। तेन इदमपि सिद्धं भवति, अभिगममर्हति आभिगामिकः। अधिदेवे भवम् आधिदैविकम्। आधिभौतिकम्। चतस्र एव विद्याः चातुर्वैद्यम्। स्वार्थे ष्यञ्। अनुशतिक। अनुहोड। अनुसंवरण। अनुसंवत्सर। अङ्गारवेणु। असिहत्य। वध्योग। पुष्करसद्। अनुहरत्। कुरुकत। कुरुपञ्चाल। उदकशुद्ध। इहलोक। परलोक। सर्वलोक। सर्वपुरुष। सर्वभूमि। प्रयोग। परस्त्री। राजपुरुषात् ष्यञि। सूत्रनड। अनुशतिकादिः।
TBD.
1098 एषामुभयपदवृद्धिर्ञिति णिति किति च. आधिदैविकम्. आधिभौतिकम्. ऐहलौकिकम्. पारलोकिकम्. आकृतिगणोऽयम्..
1417 अनुशतिकादीनां च। आदिवृद्धिप्रकरणे उत्तरपदस्य, पूर्वपदस्य चेत्यधिकारे इदं सूत्रम्। तदाह–एषामिति। आधिदैविकमिति। देवेष्वित्यधिदेवम्, तत्र भवमित्यर्थः। ठञि उभयपद वृद्धिः। आधिभोतिकमिति। भूतेष्वधिभूतम्। तत्र भवमित्यर्थः। ऐहलौकिकमिति। इह लोके भवमित्यर्थः। पारलौकिकमिति। परलोके भवमित्यर्थः। सर्वत्र ठञि उभयपदवृद्धिः।
–
TBD.